२७

01 वयः सुपर्णा इति ...{Loading}...

वयः सुपर्णा इति १

02 दीक्षितदण्डञ् च मैत्रावरुणाय ...{Loading}...

दीक्षितदण्डं च मैत्रावरुणाय प्रयच्छति मित्रावरुणयोस्त्वा प्रशास्त्रोः प्रशिषा प्रयच्छाम्यवक्रोऽविधुरो भूयासमिति २

03 मित्रो न एहीति ...{Loading}...

मित्रो न एहीति यजमानो राजानमादायेन्द्रस्योरुमाविशेति दक्षिण ऊरावासाद्य हस्ताभ्यां निगृह्यास्ते ३

04 अत्रादित्योपस्थानन् दण्डप्रदानं सोमक्रयणानामनुदेशनमेके ...{Loading}...

अत्रादित्योपस्थानं दण्डप्रदानं सोमक्रयणानामनुदेशनमेके समामनन्ति ४

05 रुद्रस्त्वावर्तयत्विति प्रदक्षिणं सोमक्रयणीमावर्त्यान्यया ...{Loading}...

रुद्रस्त्वावर्तयत्विति प्रदक्षिणं सोमक्रयणीमावर्त्यान्यया गवा निष्क्रीय यजमानस्य गोष्ठे विसृजति ५

06 यदि सोमविक्रयी प्रतिविवदेत ...{Loading}...

यदि सोमविक्रयी प्रतिविवदेत पृषतैनं वरत्राकाण्डेनावक्षायं नाशयेयुः ६

07 लकुटैर्घ्नन्तीत्येके ...{Loading}...

लकुटैर्घ्नन्तीत्येके ७

08 नित्यवदेके वधं समामनन्ति ...{Loading}...

नित्यवदेके वधं समामनन्ति ८

09 उदायुषा स्वायुषेति यजमानो ...{Loading}...

उदायुषा स्वायुषेति यजमानो राजानमादायोत्थायोर्वन्तरिक्षमन्विहीति शकटायाभिप्रव्रजति ९

10 अदित्याः सदो ऽसीत्यध्वर्युः ...{Loading}...

अदित्याः सदो ऽसीत्यध्वर्युः शकटणीडे कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमास्तीर्यादित्याः सद आसीदेति तस्मिन्राजानमासाद्य वनेषु व्यन्तरिक्षं ततानेति वाससा पर्यान्ह्योदु त्यं जातवेदसमिति सौर्यर्चा कृष्णाजिनं पुरस्तात्प्रत्यानह्यत्यूर्ध्वग्रीवं बहिष्टाद्विशसनम् १०

इति सप्तविंशी कण्डिका इति नवमः पटलः


  1. TB II.5.8.3. The sacrificer uncovers his head (see X.26.17) with this formula. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See X. 10.4. ↩︎ ↩︎ ↩︎ ↩︎

  3. See Aśvaśs III.1.16-17. For the contents of this Sūtra cf. TS VI.1.4.2; cp. MS III.6.8. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. It is not clear whose opinion is mentioned in this Sūtra. At least the “assignment" is to be done at this stage, according to ŚB III.3.3.11 and KS XXIV.6. ↩︎ ↩︎ ↩︎

  5. TS I.2.8.f. ↩︎

  6. TS 1.2.8.g. ↩︎

  7. Cf. KS XXIV.6. ↩︎