२६

01 दशभिर्द्वादशशतदक्षिणस्य ...{Loading}...

दशभिर्द्वादशशतदक्षिणस्य १

02 भूयसा वा ...{Loading}...

भूयसा वा २

03 चतुर्भिर्वा गवा हिरण्येन ...{Loading}...

चतुर्भिर्वा गवा हिरण्येन वाससाजयेत्येकेषाम् ३

04 एकयैकविंशतिदक्षिणस्य तिसृभिः षष्टिदक्षिणस्य ...{Loading}...

एकयैकविंशतिदक्षिणस्य । तिसृभिः षष्टिदक्षिणस्य । अपरिमिताभिरपरिमितदक्षिणस्य ४

05 चतुर्विंशत्या सहस्रे सर्ववेदसे ...{Loading}...

चतुर्विंशत्या सहस्रे सर्ववेदसे वा ५

06 त्रिंशता वा सहस्रदक्षिणस्य ...{Loading}...

त्रिंशता वा सहस्रदक्षिणस्य ६

07 सप्तविंशतिर्गा हिरण्यञ् छागा ...{Loading}...

सप्तविंशतिर्गा हिरण्यं छागा वास इति त्रिंशत् ७

08 शतेन वाजपेयस्य द्वाभ्यां ...{Loading}...

शतेन वाजपेयस्य । द्वाभ्यां राजसूयस्य ८

09 सहस्रेणाश्वमेधस्य ...{Loading}...

सहस्रेणाश्वमेधस्य ९

10 अस्मे चन्द्राणीति सोमविक्रयिणो ...{Loading}...

अस्मे चन्द्राणीति सोमविक्रयिणो हिरण्यमपादत्ते १०

11 अस्मे ज्योतिरिति शुक्लामूर्णास्तुकां ...{Loading}...

अस्मे ज्योतिरिति शुक्लामूर्णास्तुकां यजमानाय प्रयच्छति । तां स काले दशापवित्रस्य नाभिं कुरुते ११

12 शुक्लम् बलक्ष्याः पवित्रममोतम् ...{Loading}...

शुक्लं बलक्ष्याः पवित्रममोतं भवति १२

13 यन् द्विष्यात्तस्य कृष्णां ...{Loading}...

यं द्विष्यात्तस्य कृष्णां लोहिनीं च पवित्रे कुर्यात् १३

14 कृष्णामूर्णास्तुकामद्भिः क्लेदयित्वेदमहं सर्पाणान् ...{Loading}...

कृष्णामूर्णास्तुकामद्भिः क्लेदयित्वेदमहं सर्पाणां दन्दशूकानां ग्रीवा उपग्रथ्नामीत्युपग्रथ्य तया सोमविक्रयिणं विध्यति सोमविक्रयिणि तम इति १४

15 स्वान भ्राजेति सोमक्रयणाननुदिश्य ...{Loading}...

स्वान भ्राजेति सोमक्रयणाननुदिश्य स्वजा असि स्वभूरस्यस्मै कर्मणे जात ऋतेन त्वा गृह्णाम्यृतेन मा पाहीति सोमविक्रयिणो राजानमपादत्ते १५

16 यदि कृच्छ्रायेतापैव हरेत ...{Loading}...

यदि कृच्छ्रायेतापैव हरेत १६

17 अत्र यजमानोऽपोर्णुते ...{Loading}...

अत्र यजमानोऽपोर्णुते १७

इति षड्विंशी कण्डिका


  1. Mentioned in TS VI.1.10.1-7. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. given to him according to X.25.11. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. Cf. TS VI.1.10.3-4. ↩︎ ↩︎ ↩︎