२५

01 देव सूर्य सोमङ् ...{Loading}...

देव सूर्य सोमं क्रेष्यामस्तं ते प्रब्रूमस्तं त्वं विश्वेभ्यो देवेभ्यः क्रतून्कल्पय दक्षिणाः कल्पय यथर्तु यथादेवतमित्यादित्यमुपस्थाय सोमविक्रयिणे राजानं प्रदाय पणते १

02 सोमविक्रयिन्क्रय्यस्ते सोमा इति ...{Loading}...

सोमविक्रयिन्क्रय्यस्ते सोमा इति २

03 क्रय्य इतीतरः प्रत्याह ...{Loading}...

क्रय्य इतीतरः प्रत्याह ३

04 सोमन् ते क्रीणाम्यूर्जस्वन्तम् ...{Loading}...

सोमं ते क्रीणाम्यूर्जस्वन्तं पयस्वन्तमित्युक्त्वा कलया ते क्रीणानीत्येनमाह ४

05 भूयो वा अतः ...{Loading}...

भूयो वा अतः सोमो राजार्हतीति सरवेषु पणनेषु सोमविक्रयी प्रत्याहासम्पदः ५

06 कुष्ठया ते क्रीणानीति ...{Loading}...

कुष्ठया ते क्रीणानीति द्वितीयम् । शफेन ते क्रीणानीति तृतीयम् । पदा ते क्रीणानीति चतुर्थम् ६

07 एवन् त्रिः ...{Loading}...

एवं त्रिः ७

08 एकैकशो वा त्रिस्त्रिः ...{Loading}...

एकैकशो वा त्रिस्त्रिः ८

09 गवा ते क्रीणानीत्यन्ततः ...{Loading}...

गवा ते क्रीणानीत्यन्ततः ९

10 अपि वा न ...{Loading}...

अपि वा न गवेति ब्रूयात् । एषेति निर्दिश्य जपति तस्या आत्मा तस्या रूपं तस्याः प्रजा तस्याः पयस्तस्या बन्धुरिति १०

11 शुक्रन् ते शुक्रेण ...{Loading}...

शुक्रं ते शुक्रेण क्रीणामीति जपित्वा हिरण्येन क्रीणाति ११

12 तपसस्तनूरसीति जपित्वाजया क्रीणाति ...{Loading}...

तपसस्तनूरसीति जपित्वाजया क्रीणाति १२

13 अवशिष्टानामेकैकेन ...{Loading}...

अवशिष्टानामेकैकेन १३

14 यदृषभेण क्रीणीयात्प्रजापतिना क्रीणीयात् ...{Loading}...

यदृषभेण क्रीणीयात्प्रजापतिना क्रीणीयात् । तत्स्थाने वत्सतरः साण्डः १४

15 मिथुनाभ्यामिति वत्सतरो वत्सतरी ...{Loading}...

मिथुनाभ्यामिति वत्सतरो वत्सतरी च १५

16 ताभ्यां युगपत्क्रीत्वा वाससान्ततः ...{Loading}...

ताभ्यां युगपत्क्रीत्वा वाससान्ततः सम्पादयति १६

इति पञ्चविंशी कण्डिका


  1. Cf. ŚB III.3.3.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. i.e. the lower part of a cow’s leg. ↩︎ ↩︎

  3. TS VI.1.10.1. ↩︎ ↩︎

  4. Cf. TS VI.1.10.1. literally “foot"(= 1/4). ↩︎