२४

01 अत्रादित्योपस्थानं राज्ञश्च निवपनादि ...{Loading}...

अत्रादित्योपस्थानं राज्ञश्च निवपनादि कर्मैके समामनन्ति १

02 अपि पन्थामगस्महीत्युद्धृतपूर्वफलकेनानसा परिश्रितेन ...{Loading}...

अपि पन्थामगस्महीत्युद्धृतपूर्वफलकेनानसा परिश्रितेन छदिष्मता प्राञ्चः सोममच्छ यान्ति २

03 शीर्ष्णा गिरौ क्रीतं ...{Loading}...

शीर्ष्णा गिरौ क्रीतं हरन्ति ३

04 अपरेणोत्तरेण वा राजानम् ...{Loading}...

अपरेणोत्तरेण वा राजानं प्रागीषमुदगीषं वा नद्धयुगं शकटं चुबुकप्रतिष्ठितम् ४

05 अंशुना ते अंशुः ...{Loading}...

अंशुना ते अंशुः पृच्यतामिति यजमानो राजानमभिमन्त्रयते ५

06 यङ् कामयेतापशुः स्यादित्यृक्षतस्तस्येत्युक्तम् ...{Loading}...

यं कामयेतापशुः स्यादित्यृक्षतस्तस्येत्युक्तम् ६

07 क्षौमं वासो द्विगुणन् ...{Loading}...

क्षौमं वासो द्विगुणं त्रिगुणं वा प्राग्दशमुत्तरदशं चर्मण्यास्तृणाति । उदग्दशं वा ७

08 तस्मिन्हिरण्यपाणिरङ्गुष्ठेन कनिष्ठिकया चाङ्गुल्यांशून्सङ्गृह्यान्यचन्नभि ...{Loading}...

तस्मिन्हिरण्यपाणिरङ्गुष्ठेन कनिष्ठिकया चाङ्गुल्यांशून्सङ्गृह्यान्यचन्नभि त्यं देवं सवितारमित्यतिच्छन्दसर्चा मिमीते ८

09 एवमेकयैकयोत्सर्गम् ...{Loading}...

एवमेकयैकयोत्सर्गम् ९

10 सर्वास्वङ्गुष्ठमुपनिगृह्णाति ...{Loading}...

सर्वास्वङ्गुष्ठमुपनिगृह्णाति १०

11 यया प्रथमन् न ...{Loading}...

यया प्रथमं न तया पञ्चमं तयैवोत्तमम् ११

12 पञ्चकृत्वो य्जुषा मिमीते ...{Loading}...

पञ्चकृत्वो य्जुषा मिमीते । पञ्चकृत्वस्तूष्णीम् १२

13 एवन् द्विस्त्रिरपरिमितकृत्वो वा ...{Loading}...

एवं द्विस्त्रिरपरिमितकृत्वो वा १३

14 प्रजाभ्यस्त्वेत्यवशिष्टानंशूनुपसमूह्य क्षौमेण वाससोपसङ्गृह्य ...{Loading}...

प्रजाभ्यस्त्वेत्यवशिष्टानंशूनुपसमूह्य क्षौमेण वाससोपसङ्गृह्य प्राणाय त्वेति द्विगुणेनोष्णीषेणोपनह्य व्यानाय त्वेति विस्रस्यावेक्षते प्रजास्त्वमनुप्राणिहि प्रजास्त्वामनुप्राणन्त्विति १४

15 एष ते गायत्रो ...{Loading}...

एष ते गायत्रो भाग इत्येतैर्यजमानो राजानमुपतिष्ठते १५

इति चतुर्विंशी कण्डिका


  1. Not known. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. X.22.8. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. X.20.13-18. ↩︎ ↩︎ ↩︎ ↩︎

  4. Cf. ŚB III.3.4.9. ↩︎ ↩︎

  5. TS I.2.6.c. ↩︎

  6. Cf. TS VI.1.9.6-7. ↩︎