२३

01 सखायः सप्तपदा अभूम ...{Loading}...

सखायः सप्तपदा अभूम सख्यं ते गमेयं सखात्ते मा योषं सख्यान्मे मा योष्ठा इति सप्तमे पदे जपति १

02 बृहस्पतिस्त्वा सुम्ने रण्वत्विति ...{Loading}...

बृहस्पतिस्त्वा सुम्ने रण्वत्विति सप्तमं पदमध्वर्युरञ्जलिनाभिगृह्य पदे हिरण्यं निधाय पृथिव्यास्त्वा मूर्धन्नाजिघर्मीति हिरण्ये हुत्वापादाय हिरण्यं देवस्य त्वा सवितुः प्रसव इति स्फ्यमादाय परिलिखितं रक्षः परिलिखिता अरातय इति त्रिः प्रदक्षिणं पदं परिलिखति यावद्घृतमनुविसृतं भवति २

03 कृष्णविषाणया चानुपरिलिख्यास्मे राय ...{Loading}...

कृष्णविषाणया चानुपरिलिख्यास्मे राय इति स्थाल्यां यावत्त्मूतं समोप्य त्वे राय इति यजमानाय प्रयच्छति ३

04 तोते राय इति ...{Loading}...

तोते राय इति पत्नियै ४

05 माहं रायस्पोषेण वियोषमिति ...{Loading}...

माहं रायस्पोषेण वियोषमिति पत्नी पदं प्रदीयमानमनुमन्त्रयते ५

06 सन् देवि देव्योर्वश्या ...{Loading}...

सं देवि देव्योर्वश्या पश्यस्वेति सोमक्रयण्या पत्नीं सङ्ख्यापयति ६

07 त्वष्टीमती ते सपेयेति ...{Loading}...

त्वष्टीमती ते सपेयेति पत्नी सोमक्रयणीमभिमन्त्रयते ७

08 त्वष्टुमन्तस्त्वा सपेमेति यजमानः ...{Loading}...

त्वष्टुमन्तस्त्वा सपेमेति यजमानः ८

09 यतः पदमपात्तन् तस्मिन्सहिरण्यौ ...{Loading}...

यतः पदमपात्तं तस्मिन्सहिरण्यौ पाणी प्रक्षाल्योन्नम्भय पृथिवीमित्यद्भिरुपनिनीय पदं त्रैधं विभज्य तृतीयमुत्तरतो गार्हपत्यस्य शीते भस्मन्युपवपति । तृतीयमाहवनीयस्य । तृतीयं पत्न्यै प्रयच्छति ९

10 तत्सा गृहेषु निदधाति ...{Loading}...

तत्सा गृहेषु निदधाति १०

इति त्रयोविंशी कण्डिका


  1. TB III.7.7. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS I.2.5.c. ↩︎ ↩︎

  3. See X.22.8. ↩︎ ↩︎ ↩︎

  4. Cf. TS VI.1.8.3. ↩︎

  5. TS I.1.9.a ↩︎

  6. Cf. ŚB III.3.1.5. ↩︎

  7. Cf. KS XXIV.4. ↩︎

  8. TS I.2.5.d-e. ↩︎