२२

01 प्रायणीयाया ध्रौवादष्टौ जुह्वाञ् ...{Loading}...

प्रायणीयाया ध्रौवादष्टौ जुह्वां चतुरो वा गृहीत्वा तस्मिन्दर्भेण हिरण्यं निष्टर्क्यं बद्ध्वावदधातीयं ते शुक्र तनूरिति १

02 पुरस्तात्प्रतीची सोमक्रयण्यवस्थिता भवत्येकहायनी ...{Loading}...

पुरस्तात्प्रतीची सोमक्रयण्यवस्थिता भवत्येकहायनी द्विहायनी वर्षीयसी वा २

03 अकूटयाकर्णयेति रूपाणि ...{Loading}...

अकूटयाकर्णयेति रूपाणि ३

04 या रोहिणी बभ्रुलोम्नी ...{Loading}...

या रोहिणी बभ्रुलोम्नी पृश्निवाला पृश्निशफा शुच्यक्षा श्वित्रोपकाशा तया क्रीणीयादित्येके ४

05 द्विरूपया राजन्यस्य ...{Loading}...

द्विरूपया राजन्यस्य ५

06 शुण्ठयाधीलोधकर्ण्या षोडशिनः ...{Loading}...

शुण्ठयाधीलोधकर्ण्या षोडशिनः ६

07 तदाज्यं सोमक्रयणीमीक्षमाणो जुहोति ...{Loading}...

तदाज्यं सोमक्रयणीमीक्षमाणो जुहोति जूरसीति ७

08 अपरञ् चतुर्गृहीतङ् गृहीत्वा ...{Loading}...

अपरं चतुर्गृहीतं गृहीत्वा शुक्रमसीति हिरण्यं पश्चादुद्धृत्य वैश्वदेवं हविरित्याज्यमवेक्ष्य सूर्यस्य चक्षुरारुहमित्यादित्यमुपस्थाय चिदसि मनासीति सोमक्रयणीमभिमन्त्रयते ८

09 अकर्णगृहीतापदिबद्धा भवति ...{Loading}...

अकर्णगृहीतापदिबद्धा भवति ९

10 मित्रस्त्वा पदि बध्नात्विति ...{Loading}...

मित्रस्त्वा पदि बध्नात्विति दक्षिणं पूर्वपादं प्रेक्षते । पूषाध्वनः पात्विति प्राचीं यतीमनुमन्त्रयते १०

11 षट् पदान्यनुनिक्रामति दक्षिणेन ...{Loading}...

षट् पदान्यनुनिक्रामति दक्षिणेन पदा दक्षिणानि वस्व्यसि रुद्रासीत्येतैः प्रतिमन्त्रम् ११

12 एकमिषे विष्णुस्त्वान्वेतु द्वे ...{Loading}...

एकमिषे विष्णुस्त्वान्वेतु द्वे ऊर्जे विष्णुस्त्वान्वेतु त्रीणि व्रताय विष्णुस्त्वान्वेतु चत्वारि मयोभवाय विष्णुस्त्वान्वेतु पञ्च पशुभ्यो विष्णुस्त्वान्वेतु षड्रायस्पोषाय विष्णुस्त्वान्वेतु सप्त सप्तभ्यो होत्राभ्यो विष्णुस्त्वान्वेत्विति निक्रम्यमाणेषु यजमानोऽनुवर्तयित्वा १२

इति द्वाविंशी कण्डिका


  1. Cf. MS III.7.5%; ŚB III.2.4.8. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS I.2.4.d.b. ↩︎ ↩︎

  3. Cf. ŚB III.2.4.8. ↩︎ ↩︎ ↩︎ ↩︎

  4. TS I.2.4.e. ↩︎

  5. TS I.2.4.f,g. ↩︎