२१

01 प्रायणीयायास्तन्त्रम् प्रक्रमयति ...{Loading}...

प्रायणीयायास्तन्त्रं प्रक्रमयति १

02 वेदङ् कृत्वाग्नीन्परिस्तीर्य पाणिप्रक्षालनादि ...{Loading}...

वेदं कृत्वाग्नीन्परिस्तीर्य पाणिप्रक्षालनादि कर्म प्रतिपद्यते २

03 यथार्थम् पात्राणि प्रयुनक्ति ...{Loading}...

यथार्थं पात्राणि प्रयुनक्ति । स्थालीं कपालानां स्थाने ३

04 निर्वपणकालेऽदित्यै पयसि चरुः ...{Loading}...

निर्वपणकालेऽदित्यै पयसि चरुः प्रायणीयः ४

05 प्राक् सम्प्रैषात्कृत्वा पत्नीवर्जं ...{Loading}...

प्राक् सम्प्रैषात्कृत्वा पत्नीवर्जं सम्प्रेष्यति ५

06 याः कृतायां वेद्याञ् ...{Loading}...

याः कृतायां वेद्यां चोद्यन्ते सैव तासां वेदिः । याः स्तीर्णे बर्हिषि तदेव तासां बर्हिः ६

07 आज्यग्रहणकालेऽननूयाजे प्रायणीये चतुर्जुह्वाङ् ...{Loading}...

आज्यग्रहणकालेऽननूयाजे प्रायणीये चतुर्जुह्वां गृह्णाति । चतुरुपभृति समानयनार्थम् ७

08 अप्रयाज उदयनीये न ...{Loading}...

अप्रयाज उदयनीये न जुह्वां गृह्णाति । चतुरुपभृत्यनूयाजार्थम् ८

09 षड्ढोत्रा प्रायणीयमासादयति ...{Loading}...

षड्ढोत्रा प्रायणीयमासादयति ९

10 प्रयाजवदननूयाजमित्युक्तम् ...{Loading}...

प्रयाजवदननूयाजमित्युक्तम् १०

11 चतुर आज्यभागान्प्रतिदिशं यजति ...{Loading}...

चतुर आज्यभागान्प्रतिदिशं यजति । पथ्यां स्वस्तिं पुरस्तादग्निं दक्षिणतः सोमं पश्चात्सवितारमुत्तरतः । मध्ये ऽदितिं हविषा ११

12 अदितिमिष्ट्वा मारुतीमृचमनूच्याज्येन चरुमभिपूर्यैता ...{Loading}...

अदितिमिष्ट्वा मारुतीमृचमनूच्याज्येन चरुमभिपूर्यैता देवता यजति । ध्रौवाद्वा । स्विष्टकृतं षष्ठम् १२

13 शंय्वन्ता संस्थाप्या वा ...{Loading}...

शंय्वन्ता संस्थाप्या वा १३

14 पत्नीस्तु न संयाजयेत् ...{Loading}...

पत्नीस्तु न संयाजयेत् १४

15 ता उदयनीये संयाजयेत् ...{Loading}...

ता उदयनीये संयाजयेत् १५

16 समे वा कार्ये ...{Loading}...

समे वा कार्ये १६

17 धारयति ध्रौवमाज्यम् ...{Loading}...

धारयति ध्रौवमाज्यम् १७

18 प्राग्वंशे बर्हिः स्थालीमनिष्कसिताम् ...{Loading}...

प्राग्वंशे बर्हिः स्थालीमनिष्कसितां मेक्षणमित्युदयनीयार्थं निदधाति १८

इत्येकविंशी कण्डिका इति सप्तमः पटलः


  1. See 1.6.4-6. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See I. 14.12-15. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. Sec 1.15.4 ff. ↩︎