२०

01 दक्षिणतऽउन्नतमुदीचीनावनतम् प्राक्प्रवणम् प्रागुदक्प्रवणं …{Loading}…

दक्षिणतऽउन्नतमुदीचीनावनतं प्राक्प्रवणं प्रागुदक्प्रवणं वा देवयजनम् १

02 यत्र वा बहवो …{Loading}…

यत्र वा बहवो ब्राह्मणाः संराधयेयुः २

03 अग्नयो वाव देवयजनम् …{Loading}…

अग्नयो वाव देवयजनम् । यत्र क्वचाग्नीनाधाय यजते देवयजन एव यजत इति विज्ञायते ३

04 दक्षिणा वाव देवयजनम् …{Loading}…

दक्षिणा वाव देवयजनम् । दक्षिणाश्चेत्कल्याणीर्ददाति देवयजन एव यजत इत्येके ४

05 पुरोहविषीति काम्यानि …{Loading}…

पुरोहविषीति काम्यानि ५

06 निर्व्रस्केऽभिचरन्यजेत …{Loading}…

निर्व्रस्केऽभिचरन्यजेत ६

07 यस्माद्वृक्षाद्वल्मीकानिति निर्हरेयुरथो अभिखनेयुः …{Loading}…

यस्माद्वृक्षाद्वल्मीकानिति निर्हरेयुरथो अभिखनेयुः ७

08 परोक्षङ् गुहा वने …{Loading}…

परोक्षं गुहा वने याजयेदभिशस्यमानम् ८

09 परोक्षम् पृष्ठान्युपेयुः सर्वमुपांशु …{Loading}…

परोक्षं पृष्ठान्युपेयुः । सर्वमुपांशु क्रियेत । स्थले यजेत ९

10 यः कामयेतोभयेषान् देवमनुष्याणाम् …{Loading}…

यः कामयेतोभयेषां देवमनुष्याणां प्रकाशं गच्छेयमिति न प्राचीनं देवयजनाद्देवयजनमात्रमुच्छिं षेत् १०

11 यत्रापो देवयजनञ् चान्तरेण …{Loading}…

यत्रापो देवयजनं चान्तरेण पन्था अभिविधावेत्तस्मिन्याजयेद्यं कामयेत नैनमुत्तरो यज्ञ उपनमेदिति ११

12 कौत्साद्राजानङ् क्रीणीयादन्यस्माद्वा ब्राह्मणादित्युक्त्वाहाप्यब्राह्मणादिति …{Loading}…

कौत्साद्राजानं क्रीणीयादन्यस्माद्वा ब्राह्मणादित्युक्त्वाहाप्यब्राह्मणादिति १२

13 उत्तरवेदिदेश उपरवदेशे वा …{Loading}…

उत्तरवेदिदेश उपरवदेशे वा लोहितं चर्मानडुहं प्राचीनग्रीवमुत्तरलोमास्तीर्य दक्षिणे चर्मपक्षे राजानं निवपति । उत्तरस्मिन्नुपविशति सोमविक्रयी १३

14 इत्युक्तम् …{Loading}…

उदकुम्भं राजानं सोमविक्रयिणमिति सर्वतः परिश्रित्योत्तरेण द्वारं कृत्वा विचित्यः सोमा३ इत्युक्तम् १४

15 सोमविक्रयिन्सोमं शोधयेत्युक्त्वा पराङावर्तते …{Loading}…

सोमविक्रयिन्सोमं शोधयेत्युक्त्वा पराङावर्तते १५

16 न साम्येक्षमुपेयात् न …{Loading}…

न साम्येक्षमुपेयात् । न यजमानः सोमं विचिनुयात् १६

17 नास्य पुरुषो नाध्वर्युर्नाध्वर्युपुरुषः …{Loading}…

नास्य पुरुषो नाध्वर्युर्नाध्वर्युपुरुषः १७

18 राज्ञो विचीयमानस्योपद्रष्टारः स्युः …{Loading}…

राज्ञो विचीयमानस्योपद्रष्टारः स्युः १८

19 अहन् त्वदस्म्याजुह्वान इत्येताभ्यामाहवनीयं …{Loading}…

अहं त्वदस्म्याजुह्वान इत्येताभ्यामाहवनीयं यजमान उपतिष्ठते १९

इति विंशी कण्डिका


  1. Cf. MS III.8.4; cp. ŚB III.1.1.2. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. For these Sūtras cf. MS III.8.4. ↩︎ ↩︎ ↩︎