१८

01 अग्ने त्वं सु ...{Loading}...

अग्ने त्वं सु जागृहीति स्वप्स्यन्नाहवनीयमभिमन्त्रयते १

02 त्वमग्ने व्रतपा असीति ...{Loading}...

त्वमग्ने व्रतपा असीति प्रबुध्य मुष्टी वाचं वा विसृज्यादीक्षितवादं वोदित्वा २

03 विश्वे देवा अभि ...{Loading}...

विश्वे देवा अभि मामाववृत्रन्निति प्रबुध्य जपति । पुनर्मनः पुनरायुरागात्पुनः प्राणः पुनराकूतमागात् । वैश्वानरोऽदब्धस्तनूपा अवबाधतां दुरितानि विश्वेति च ३

04 तस्माद्दीक्षितो द्वादशाहम् भृतिं ...{Loading}...

तस्माद्दीक्षितो द्वादशाहं भृतिं वन्वीत । यज्ञमेव तत्सम्भरतीति विज्ञायते ४

05 पूषा सन्येति सनीहारान्संशास्ति ...{Loading}...

पूषा सन्येति सनीहारान्संशास्ति ५

06 चन्द्रमसीत्येतैर्यथालिङ्गम् प्रतिगृह्णाति ...{Loading}...

चन्द्रमसीत्येतैर्यथालिङ्गं प्रतिगृह्णाति ६

07 देवः सविता वसोर्वसुदावेत्यन्यानि ...{Loading}...

देवः सविता वसोर्वसुदावेत्यन्यानि ७

08 वायवे त्वेति तासान् ...{Loading}...

वायवे त्वेति तासां नष्टामनुदिशति ८

09 वरुणाय त्वेत्यप्सु मृताम् ...{Loading}...

वरुणाय त्वेत्यप्सु मृताम् ९

10 निरृत्यै त्वेत्यवसन्नां संशीर्णां ...{Loading}...

निरृत्यै त्वेत्यवसन्नां संशीर्णां वा १०

इत्यष्टादशी कण्डिका


  1. Cf. TS VI.1.4.5-6. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS I.2.3.c. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. Cf. MS III.6.9. ↩︎