१७

01 उदितेषु नक्षत्रेषु पूर्ववद्वाचो …{Loading}…

उदितेषु नक्षत्रेषु पूर्ववद्वाचो विसर्गः १

02 एवमुपोदयं यमयति उदित …{Loading}…

एवमुपोदयं यमयति । उदित आदित्ये विसृजते २

03 मध्यन्दिने मध्यरात्रे च …{Loading}…

मध्यन्दिने मध्यरात्रे च व्रतयति ३

04 अतिनीय वा मानुषङ् …{Loading}…

अतिनीय वा मानुषं कालम् ४

05 सायन् दुग्धमपररात्रे प्रातर्दुग्धमपराह्णे …{Loading}…

सायं दुग्धमपररात्रे प्रातर्दुग्धमपराह्णे इत्येके ५

06 गार्हपत्ये दीक्षितस्य व्रतं …{Loading}…

गार्हपत्ये दीक्षितस्य व्रतं श्रपयति । दक्षिणाग्नौ पत्न्याः ६

07 याग्निहोत्रस्य स्कन्नस्य प्रायश्चित्तिः …{Loading}…

याग्निहोत्रस्य स्कन्नस्य प्रायश्चित्तिः सा व्रतस्य ७

08 अग्निहोत्रवत्तूष्णीमुन्नीयापरेणाहवनीयं व्रतमत्याहृत्य प्रयच्छन्नाह …{Loading}…

अग्निहोत्रवत्तूष्णीमुन्नीयापरेणाहवनीयं व्रतमत्याहृत्य प्रयच्छन्नाह व्रत्य व्रतय व्रतमुपेहीति ८

09 दैवीन् धियम् मनामह …{Loading}…

दैवीं धियं मनामह इति हस्ताववनिज्य ये देवा मनोजाता मनोयुज इति दक्षिणेनाहवनीयं परिश्रिते व्रतयति ९

10 नैनमदीक्षिता व्रतयन्तम् पश्यन्ति …{Loading}…

नैनमदीक्षिता व्रतयन्तं पश्यन्ति १०

11 शिवाः पीता भवथ …{Loading}…

शिवाः पीता भवथ यूयमापोऽस्माकं योनावुदरे सुशेवाः । इरावतीरनमीवा अनागसः शिवा नो भवथ जीवस इति व्रतयित्वा नाभिदेशमभिमृशते ११

12 अपश्च पीत्वा जपति …{Loading}…

अपश्च पीत्वा जपति १२

13 तूष्णीम् पत्नी स्व …{Loading}…

तूष्णीं पत्नी स्व आयतने व्रतयति १३

इति सप्तदशी कण्डिका इति पञ्चमः पटलः


  1. See X.12.4. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. KS XXIII.7. ↩︎ ↩︎ ↩︎

  3. TS I.2.3.b. ↩︎