१६

01 न पुरा नक्षत्रेभ्यो ...{Loading}...

न पुरा नक्षत्रेभ्यो वाचं विसृजेत् । यदि विसृजेदिदं विष्णुस्त्वमग्ने व्रतपा असीति जपित्वा वाचं यच्छेत् १

02 पुनर्वा दीक्षेत ...{Loading}...

पुनर्वा दीक्षेत २

03 अथैकेषाम् वैष्णवीमाग्नावैष्णवीं सारस्वतीम् ...{Loading}...

अथैकेषाम् । वैष्णवीमाग्नावैष्णवीं सारस्वतीं बार्हस्पत्यामुत्तमामनूच्य वाग्यन्तव्येति ३

04 दुग्धमेवाभिविसृजेदित्यालेखनः ...{Loading}...

दुग्धमेवाभिविसृजेदित्यालेखनः ४

05 यवागू राजन्यस्येत्युक्तम् ...{Loading}...

यवागू राजन्यस्येत्युक्तम् ५

06 यवागूमेकदुग्धं वा व्रतयेदित्यवर्णसंयोगेनैक ...{Loading}...

यवागूमेकदुग्धं वा व्रतयेदित्यवर्णसंयोगेनैक उपदिशन्ति ६

07 तद्धैतदेके पयो व्रतयन्ति ...{Loading}...

तद्धैतदेके पयो व्रतयन्ति । तदु तथा न कुर्यात् । पयस्येव यवागूं श्रपयित्वा व्रतयेत् ७

08 यदि व्रतधुगल्पन् दुहीतान्यान् ...{Loading}...

यदि व्रतधुगल्पं दुहीतान्यां दुह्यात् ८

09 यद्यन्या न स्यादद्भिः ...{Loading}...

यद्यन्या न स्यादद्भिः संसृज्य श्रपयेत् ९

10 यदि पयो न ...{Loading}...

यदि पयो न स्यादप्स्वेव यवागूं श्रपयित्वा व्रतयेत् १०

11 अप्यन्ततः पिप्पलानि न ...{Loading}...

अप्यन्ततः पिप्पलानि । न त्वेव न व्रतयेदग्निहोत्रस्याविच्छेदायेति ११

12 यदि दधीयादेतदेवास्मै दधि ...{Loading}...

यदि दधीयादेतदेवास्मै दधि कुर्युः १२

13 यद्यन्नीयाद्धाना अस्मा अन्वावपेयुः ...{Loading}...

यद्यन्नीयाद्धाना अस्मा अन्वावपेयुः सक्तूनस्मा अन्वावपेयुर्घृतमस्मा अन्वानयेयुः १३

14 अप्यग्निहोत्रहविषामेवैकं व्रतयेन्मांसवर्जम् ...{Loading}...

अप्यग्निहोत्रहविषामेवैकं व्रतयेन्मांसवर्जम् १४

15 सोऽयन् दैक्षो वादो ...{Loading}...

सोऽयं दैक्षो वादो भवतीति खल्वाहुः । सर्वेषामुपसस्त्वनारभ्य स्तनकल्प आम्नातः १५

16 अपराह्णेऽधिवृक्षसूर्ये वा व्रतप्रदो ...{Loading}...

अपराह्णेऽधिवृक्षसूर्ये वा व्रतप्रदो वाचं यमयति । अग्नीञ्ज्योतिष्मतः कुरुत दीक्षित वाचं यच्छ पत्नि वाचं यच्छेति सम्प्रेष्यति १६

इति षोडशी कण्डिका


  1. TS I.2.13.e. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS I.1.14.n. ↩︎ ↩︎