१५

01 एका दीक्षा तिस्र …{Loading}…

एका दीक्षा तिस्र उपसदः पञ्चमीं प्रसुतः । तिस्रो वा दीक्षास्तिस्र उपसदः सप्तमीं प्रसुतः । चतस्रो वा दीक्षास्तिस्र उपसदोऽष्टमीं प्रसुतः १

02 अमावास्यायान् दीक्षा यजनीये …{Loading}…

अमावास्यायां दीक्षा यजनीये वा । पौर्णमास्यां यजनीये वा सुत्यमहः २

03 एतद्वा विपरीतम् …{Loading}…

एतद्वा विपरीतम् ३

04 अमावास्यायान् दीक्षा यजनीये …{Loading}…

अमावास्यायां दीक्षा यजनीये वा । अमावास्यायां यजनीये वा सुत्यमहः । पौर्णमास्यां दीक्षा यजनीये वा । पौर्णमास्यां यजनीये वा सुत्यमहः ४

05 नैनमन्यत्र दीक्षितविमितादभिनिस्रोचेदभ्युदियाद्वा …{Loading}…

नैनमन्यत्र दीक्षितविमितादभिनिस्रोचेदभ्युदियाद्वा ५

06 वारुणीरभिनिम्रुक्तो जपेत् सौरीरभ्युदितः …{Loading}…

वारुणीरभिनिम्रुक्तो जपेत् । सौरीरभ्युदितः ६

07 अबद्धम् मन इत्यमेध्यन् …{Loading}…

अबद्धं मन इत्यमेध्यं दृष्ट्वा जपति ७

08 उन्दतीर्बलन् धत्तेत्यववृष्टः …{Loading}…

उन्दतीर्बलं धत्तेत्यववृष्टः ८

09 दक्षिणेनाहवनीयम् प्राङ् शेते …{Loading}…

दक्षिणेनाहवनीयं प्राङ् शेते न न्यङ्नोत्तानो नाग्नेरपपर्यावर्तेत ९

10 यद्यपपर्यावर्तेत विश्वे देवा …{Loading}…

यद्यपपर्यावर्तेत विश्वे देवा अभि मामाववृत्रन्निति जपेत् १०

11 नान्यत्र कृष्णाजिनादासीत यद्यन्यत्रासीत …{Loading}…

नान्यत्र कृष्णाजिनादासीत । यद्यन्यत्रासीत देवां जनमगन्यज्ञ इति जपेत् ११

12 न दण्डात्कृष्णाजिनादिति विप्रच्छिद्येत …{Loading}…

न दण्डात्कृष्णाजिनादिति विप्रच्छिद्येत । उभे निधाय मूत्रपुरीषे कुर्यात् १२

13 यावदुक्तम् पत्न्या दीक्षितव्यञ्जनानि …{Loading}…

यावदुक्तं पत्न्या दीक्षितव्यञ्जनानि १३

14 समानम् ब्रह्मचर्यम् …{Loading}…

समानं ब्रह्मचर्यम् १४

15 न दीक्षितवसनम् परिदधीत …{Loading}…

न दीक्षितवसनं परिदधीत । नास्य पापं कीर्तयेत् । नान्नमश्नीयात् १५

16 यज्ञार्थे वा निर्दिष्टे …{Loading}…

यज्ञार्थे वा निर्दिष्टे शेषाद्भुञ्जीरन् । संस्थिते वाग्नीषोमीये । हुतायां वा वपायाम् १६

इति पञ्चदशी कण्डिका इति चतुर्थः पटलः


  1. Cf. MS III.6.9; KS XXIII.2; ŚB II.2.2.27. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cp. KS XXIII.5; MS III.6.9. ↩︎