१४

01 बीभत्सा नाम स्थापः ...{Loading}...

बीभत्सा नाम स्थापः स्वाहाकृताः पृथिवीमाविशतेति स्नूहानम् । कृपा णाम स्थापः स्वाहाकृताः पृथिवीमाविशतेत्यश्रु । तपस्या नाम स्थापः स्वाहाकृताः पृथिवीमाविशतेति स्वेदम् १

02 न प्रतीच्या द्वारा ...{Loading}...

न प्रतीच्या द्वारा निष्क्रामति २

03 नाक्रतुसंयुक्तामाहुतिञ् जुहोति ...{Loading}...

नाक्रतुसंयुक्तामाहुतिं जुहोति ३

04 नाग्निहोत्रम् ...{Loading}...

नाग्निहोत्रम् ४

05 न दर्शपूर्णमासाभ्यां यजते ...{Loading}...

न दर्शपूर्णमासाभ्यां यजते ५

06 न ददाति ...{Loading}...

न ददाति ६

07 न पचते ...{Loading}...

न पचते ७

08 द्वादशाहमवरार्ध्यन् दीक्षितो भवति ...{Loading}...

द्वादशाहमवरार्ध्यं दीक्षितो भवति । मासं संवत्सरं यदा वा कृशः स्यादित्यपरम् ८

09 विज्ञायते च यदा ...{Loading}...

विज्ञायते च । यदा वै दीक्षितः कृशो भवत्यथ मेध्यो भवति । यदास्मिन्नन्तर्न किञ्चन भवत्यथ मेध्यो भवति । यदास्य त्वचास्थि सन्धीयतेऽथ मेध्यो भवति । यदास्य कृष्णं चक्षुषोर्नश्यत्यथ मेध्यो भवति ९

10 पीवा दीक्षते कृशो ...{Loading}...

पीवा दीक्षते । कृशो यजते । यदस्याङ्गानां मीयते जुहोत्येव तदिति विज्ञायते १०

इति चतुर्दशी कण्डिका


  1. Cf. TS VI.1.4.5; KS XXIII.7; MS III.6.10. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎