01 बीभत्सा नाम स्थापः …{Loading}…
बीभत्सा नाम स्थापः स्वाहाकृताः पृथिवीमाविशतेति स्नूहानम् । कृपा णाम स्थापः स्वाहाकृताः पृथिवीमाविशतेत्यश्रु । तपस्या नाम स्थापः स्वाहाकृताः पृथिवीमाविशतेति स्वेदम् १
थिते
- (The consecrated sacrificer should recite over) the phlegm (coming out of his nose) bibhatsā nāma stha… (he should recite over) the tear (coming out of his eyes) kr̥pā nāma stha…; (he should recite over) the sweat (coming out of his body) tapasyā nāma stha…
बीभत्सा नाम स्थापः स्वाहाकृताः पृथिवीमाविशतेति स्नूहानम् । कृपा णाम स्थापः स्वाहाकृताः पृथिवीमाविशतेत्यश्रु । तपस्या नाम स्थापः स्वाहाकृताः पृथिवीमाविशतेति स्वेदम् १
02 न प्रतीच्या द्वारा …{Loading}…
न प्रतीच्या द्वारा निष्क्रामति २
थिते
- He does not go out (of the sacrificial hall) form the western door.
न प्रतीच्या द्वारा निष्क्रामति २
03 नाक्रतुसंयुक्तामाहुतिञ् जुहोति …{Loading}…
नाक्रतुसंयुक्तामाहुतिं जुहोति ३
थिते
- He does not offer any libation which is not connected with the sacrifice.1
नाक्रतुसंयुक्तामाहुतिं जुहोति ३
04 नाग्निहोत्रम् …{Loading}…
नाग्निहोत्रम् ४
थिते
- (He does) not (perform) the Agnihotra (-ritual).1
नाग्निहोत्रम् ४
05 न दर्शपूर्णमासाभ्यां यजते …{Loading}…
न दर्शपूर्णमासाभ्यां यजते ५
थिते
- He does not perform the New and Full-moon-offerings.1
न दर्शपूर्णमासाभ्यां यजते ५
06 न ददाति …{Loading}…
न ददाति ६
थिते
- He does not give (anything not connected with the sacrifice);
न ददाति ६
07 न पचते …{Loading}…
न पचते ७
थिते
- does not cook food.1
न पचते ७
08 द्वादशाहमवरार्ध्यन् दीक्षितो भवति …{Loading}…
द्वादशाहमवरार्ध्यं दीक्षितो भवति । मासं संवत्सरं यदा वा कृशः स्यादित्यपरम् ८
थिते
- He remains consecrated at least for twelve days; or there is another (rule) that he should remain consecrated at least for one month or for one year or until he becomes lean.
द्वादशाहमवरार्ध्यं दीक्षितो भवति । मासं संवत्सरं यदा वा कृशः स्यादित्यपरम् ८
09 विज्ञायते च यदा …{Loading}…
विज्ञायते च । यदा वै दीक्षितः कृशो भवत्यथ मेध्यो भवति । यदास्मिन्नन्तर्न किञ्चन भवत्यथ मेध्यो भवति । यदास्य त्वचास्थि सन्धीयतेऽथ मेध्यो भवति । यदास्य कृष्णं चक्षुषोर्नश्यत्यथ मेध्यो भवति ९
थिते
- And it is known (from a sacred text): “When the consecrated (sacrificer) becomes lean, he becomes worthy or performing a sacrifice; when there is nothing in his inside, then he becomes worthy of performing a sacrifice; when his bone becomes stuck to his skin, then he becomes worthy of performing a sacrifice; when the black of his eye is lost, (i.e. when the pupil cannot be seen), then he becomes worthy of performing a sacrifice."1
विज्ञायते च । यदा वै दीक्षितः कृशो भवत्यथ मेध्यो भवति । यदास्मिन्नन्तर्न किञ्चन भवत्यथ मेध्यो भवति । यदास्य त्वचास्थि सन्धीयतेऽथ मेध्यो भवति । यदास्य कृष्णं चक्षुषोर्नश्यत्यथ मेध्यो भवति ९
10 पीवा दीक्षते कृशो …{Loading}…
पीवा दीक्षते । कृशो यजते । यदस्याङ्गानां मीयते जुहोत्येव तदिति विज्ञायते १०
थिते
- “Being fat, he becomes consecrated; being lean he performs the sacrifice; whatever of his limbs is reduced, that verily, does he offer"-this is known from a sacred text.1
पीवा दीक्षते । कृशो यजते । यदस्याङ्गानां मीयते जुहोत्येव तदिति विज्ञायते १०
इति चतुर्दशी कण्डिका