१३

01 अग्निर्वै दीक्षितस्तस्मादेनन् नोपस्पृशेत् ...{Loading}...

अग्निर्वै दीक्षितस्तस्मादेनं नोपस्पृशेत् १

02 न चास्य नाम ...{Loading}...

न चास्य नाम गृह्णीयात् २

03 न पुरा दक्षिणाभ्यो ...{Loading}...

न पुरा दक्षिणाभ्यो नेतोः कृष्णविषाणामवचृतेत् ३

04 न च दन्तान्दर्शयते ...{Loading}...

न च दन्तान्दर्शयते ४

05 हस्तेनापिगृह्य स्मयते ...{Loading}...

हस्तेनापिगृह्य स्मयते ५

06 मधु मांसं स्त्रियमनृतमुपरिशय्यां ...{Loading}...

मधु मांसं स्त्रियमनृतमुपरिशय्यां ष्ठीवनं विकाले निष्क्रमणं दीक्षितविमितात्प्रवासमिति वर्जयेत् ६

07 न दिवा मूत्रपुरीषे ...{Loading}...

न दिवा मूत्रपुरीषे कुर्यात् ७

08 यदि कुर्याच्छायायाम् ...{Loading}...

यदि कुर्याच्छायायाम् ८

09 मूत्रञ् चिकीर्षन्निय ते ...{Loading}...

मूत्रं चिकीर्षन्निय ते यज्ञिया तनूरिति तृणं लोष्टं वापादायापो मुञ्चामि न प्रजामंहोमुचः स्वाहाकृताः पृथिवीमाविशतेति मूत्रं विसृज्याचम्य पृथिव्या सम्भवेत्यपात्तं प्रतिनिदधाति ९

10 यन्मेऽत्र पयसः परीतोषात्तदर्पिथ ...{Loading}...

यन्मेऽत्र पयसः परीतोषात्तदर्पिथ । अग्निहोत्रमिव सोमेन तदहं पुनरादद इति रेतः स्कन्नमनुमन्त्रयते १०

11 यदत्रापि रसस्य मे ...{Loading}...

यदत्रापि रसस्य मे निरष्ठविषमस्मृतम् । अग्निष्टत्सोमः पृथिवी पुनरात्मन्दधातु म इति छर्दित्वा ष्ठुत्वा वा । यदन्नमद्य ते नक्तं न तत्प्रातः क्षुधोऽवति । मरं तदस्मान्मा हिंसीर्नहि तद्ददृशे दिवेति स्वप्नेऽन्नं भुक्त्वा । रुद्रियाभ्योऽद्भ्यः स्वाहेति लोहितमुत्पतितं दृष्ट्वा ११

इति त्रयोदशी कण्डिका


  1. Cp. KS XXIII.6. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cp. MS III.6.7. ↩︎ ↩︎

  3. Cp. TS VI.2.5.5. ↩︎