१२

01 अपराह्णे दीक्षयेत् ...{Loading}...

अपराह्णे दीक्षयेत् १

02 यङ् कामयेत तपस्वी ...{Loading}...

यं कामयेत तपस्वी स्यादिति तं पूर्वाह्णे २

03 स वाग्यतस्तपस्तप्यमान आस्त ...{Loading}...

स वाग्यतस्तपस्तप्यमान आस्त आ नक्षत्रस्योदेतोः ३

04 वत्सस्यैकं स्तनमवशिष्येतरान्व्रतन् दोहयित्वा ...{Loading}...

वत्सस्यैकं स्तनमवशिष्येतरान्व्रतं दोहयित्वा याः पशूनामृषभे वाचस्ताः सूर्यो अग्रे शुक्रो अग्रे ताः प्रहिण्वो यथाभागं वो अत्र शिवा नस्ताः ह्पुनरायन्तु वाच इति जपित्वा व्रतं कृणुतेति वाचं विसृजते ४

05 एष्ट्रीः स्थेति चतस्रोऽङ्गुलीरुत्सृजति ...{Loading}...

एष्ट्रीः स्थेति चतस्रोऽङ्गुलीरुत्सृजति । द्वे अन्यतरतो द्वे अन्यतरतः ५

06 जागर्त्येतां रात्रिम् क्रीते ...{Loading}...

जागर्त्येतां रात्रिम् । क्रीते राजनि द्वितीयाम् । श्वःसुत्यायां तृतीयाम् ६

07 चनसितं विचक्षणमिति नामधेयान्तेषु ...{Loading}...

चनसितं विचक्षणमिति नामधेयान्तेषु निदधाति ७

08 चनसितेति ब्राह्मणम् विचक्षणेति ...{Loading}...

चनसितेति ब्राह्मणम् । विचक्षणेति राजन्यवैश्यौ ८

09 परिणयेन मानुषीं वाचं ...{Loading}...

परिणयेन मानुषीं वाचं वदति ९

10 न स्त्रिया न ...{Loading}...

न स्त्रिया न शूद्रेण सम्भाषेत १०

11 नैनमनुप्रपद्येत ...{Loading}...

नैनमनुप्रपद्येत ११

12 यद्येनं शूद्रेण संवाद ...{Loading}...

यद्येनं शूद्रेण संवाद उपपद्येत ब्राह्मणराजन्यवैश्यानामेकं ब्रूयादिममित्थं ब्रूहीति वाससनेयकम् १२

13 कामं शूद्रेण सम्भाषेत ...{Loading}...

कामं शूद्रेण सम्भाषेत यः पापेन कर्मणानभिलक्षितः स्यादिति शाट्यायनकम् १३

14 अभिवदति नाभिवादयतेऽप्याचार्यं श्वशुरं ...{Loading}...

अभिवदति नाभिवादयतेऽप्याचार्यं श्वशुरं राजानमिति शाट्यायनकम् १४

इति द्वादशी कण्डिका


  1. Cf. KB VII.2. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎