११

01 पृथिवी दीक्षा तयाग्निर्दीक्षया ...{Loading}...

पृथिवी दीक्षा तयाग्निर्दीक्षया दीक्षितो ययाग्निर्दीक्षया दीक्षितस्तया त्वा दीक्षया दीक्षयामि । अन्तरिक्षं दीक्षा तया वायुर्दीक्षया दीक्षितो यया वायुर्दीक्षया दीक्षितस्तया त्वा दीक्षया दीक्षयामि । द्यौर्दीक्षा तयादित्यो दीक्षया दीक्षितो ययादित्यो दीक्षया दीक्षितस्तया त्वा दीक्षया दीक्षयामि । दिशो दीक्षा तया चन्द्रमा दीक्षया दीक्षितो यया चन्द्रमा दीक्षया दीक्षितस्तया त्वा दीक्षया दीक्षयामि । आपो दीक्षा तया वरुणो राजा दीक्षया दीक्षितो यया वरुणो राजा दीक्षया दीक्षितस्तया त्वा दीक्षया दीक्षयामि । ओषधयो दीक्षा तया सोमो राजा दीक्षया दीक्षितो यया सोमो राजा दीक्षया दीक्षितस्तया त्वा दीक्षया दीक्षयामि । वाग्दीक्षा तया प्राणो दीक्षया दीक्षितो यया प्राणो दीक्षया दीक्षितस्तया त्वा दीक्षया दीक्षयामि । पृथिवी त्वा दीक्षमाणमनुदीक्षताम् । अन्तरिक्षं त्वा दीक्षमाणमनुदीक्षताम् । द्यौस्त्वा दीक्षमाणमनुदीक्षताम् । दिशस्त्वा दीक्षमाणमनुदीक्षन्ताम् । आपस्त्वा दीक्षमाणमनुदीक्षन्ताम् । ओषधयस्त्वा दीक्षमाणमनुदीक्षन्ताम् । वाक्त्वा दीक्षमाणमनुदीक्षताम् । ऋचस्त्वा दीक्षमाणमनुदीक्षन्ताम् । सामानि त्वा दीक्षमाणमनुदीक्षन्ताम् । यजूंषि त्वा दीक्षमाणमनुदीक्षन्ताम् । अहश्च रात्रिश्च कृषिश्च वृष्टिश्च त्विषिश्चापचितिश्चापश्चौषधयश्चोर्क् च सूनृता च तास्त्वा दीक्षमाणमनुदीक्षन्तामिति १

02 सम्भारयजूंषि चैनमध्वर्युर्वाचयति ...{Loading}...

सम्भारयजूंषि चैनमध्वर्युर्वाचयति २

03 अथाङ्गुलीर्न्यचति ...{Loading}...

अथाङ्गुलीर्न्यचति ३

04 स्वाहा यज्ञम् मनस ...{Loading}...

स्वाहा यज्ञं मनस इति द्वे । स्वाहा दिव इति द्वे । स्वाहा पृथिव्या इति द्वे । स्वाहोरोरन्तरिक्षादिति द्वे । द्वाहा यज्ञं वातादारभ इति मुष्टीकरोति वाचं च यच्छति ४

05 अथैनन् त्रिरुपांश्वावेदयति त्रिरुच्चैरदीक्षिष्टायम् ...{Loading}...

अथैनं त्रिरुपांश्वावेदयति त्रिरुच्चैरदीक्षिष्टायं ब्राह्मणोऽसावमुष्य पुत्रोऽमुष्य पौत्रोऽमुष्य नप्तामुष्याः पुत्रोऽमुष्याः पौत्रोऽमुष्या नप्तेति ५

06 ब्रह्मणो वा एष ...{Loading}...

ब्रह्मणो वा एष जायते यो दीक्षते । तस्माद्राजन्यवैश्यावपि ब्राह्मण इत्येवावेदयति ६

इत्येकादशी कण्डिका इति तृतीयः पटलः


  1. TB III.7.7.4-9. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TS VI.1.4.3; ŚB III.2.1.36. ↩︎