१०

01 कृष्यै त्वा सुसस्याया ...{Loading}...

कृष्यै त्वा सुसस्याया इति तया वेदेर्लोष्टमुद्धन्ति १

02 सुपिप्पलाभ्यस्त्वौषधीभ्य इत्यर्थे प्राप्ते ...{Loading}...

सुपिप्पलाभ्यस्त्वौषधीभ्य इत्यर्थे प्राप्ते शिरसि कण्डूयते २

03 विषाणे विष्यैतङ् ग्रन्थिं ...{Loading}...

विषाणे विष्यैतं ग्रन्थिं यदस्य गुल्फितं हृदि मनो यदस्य गुल्फितमित्यङ्गानि ३

04 ऊर्ध्वसदसि वानस्पत्यः सुद्युम्नो ...{Loading}...

ऊर्ध्वसदसि वानस्पत्यः सुद्युम्नो द्युम्नं यजमानाय धेहीत्यौदुम्बरं दीक्षितदण्डं यजमानाय प्रयच्छति । यो वा यज्ञियो बृक्षः फलग्रहिः ४

05 आस्यदघ्नश्चुबुकदघ्नो वा ...{Loading}...

आस्यदघ्नश्चुबुकदघ्नो वा ५

06 सूपस्था देवो वनस्पतिरिति ...{Loading}...

सूपस्था देवो वनस्पतिरिति तं यजमानः प्रतिगृह्योरुव्यचा असि जनधाः स्वभक्षो मा पाहीति चमसं व्रतप्रदानमभिमन्त्र्य केशिनीं दीक्षां जपत्यग्निर्दीक्षितः पृथिवी दीक्षा सा मा दीक्षा दीक्षयतु तया दीक्षया दीक्ष । वायुर्दीक्षितोऽन्तरिक्षं दीक्षा सा मा दीक्षा दीक्षयतु तया दीक्षया दीक्षे । आदित्यो दीक्षितो द्यौर्दीक्षा सा मा दीक्षा दीक्षयतु तया दीक्षया दीक्षे । चन्द्रमा दीक्षितः श्रोत्रं दीक्षा सा मा दीक्षा दीक्षयतु तया दीक्षया दीक्षे । प्रजापतिर्दीक्षितो मनो दीक्षा सा मा दीक्षा दीक्षयतु दीक्षया दीक्षे । वाचा मे वाग्दीक्षतामग्नये समष्टवा उ । प्राणेन मे प्राणो दीक्षतां वायवे समष्टवा उ । चक्षुषा मे चक्षुर्दीक्षतां सूर्याय समष्टवा उ । श्रोत्रेण मे श्रोत्रं दीक्षतां चन्द्रमसे समष्टवा उ । मनसा मे मनो दीक्षतां प्रजापतये समष्टवा उ । भूर्भुवः सुवस्तपो मे दीक्षा सत्यं गृहपतिरिति ६

07 अथैनमध्वर्युरभिमन्त्रयते ...{Loading}...

अथैनमध्वर्युरभिमन्त्रयते ७

इति दशमी कण्डिका


  1. TS I.2.2.k. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See TS VI.1.3.7. ↩︎ ↩︎ ↩︎ ↩︎

  3. Cf. TS VI.1.4.1. ↩︎ ↩︎

  4. Cf. KS XXIII.4. ↩︎