०९

01 इन्द्र शाक्वर गायत्रीम् …{Loading}…

इन्द्र शाक्वर गायत्रीं प्रपद्ये तां ते युनज्मीन्द्र शाक्वर त्रिष्टुभं प्रपद्ये तां ते युनज्मीन्द्र शाक्वर जनतीं प्रपद्ये तां ते युनज्मीन्द्र शाक्वरानुष्टुभं प्रपद्ये तां ते युनज्मीन्द्र शाक्वर पङ्क्तिं प्रपद्ये तां ते युनज्मीत्येतैः प्रतिमन्त्रं प्रतिदिशं कृष्णाजिनममिमृशति । मध्य उत्तमेन १

02 अथ प्राङ्मुखो जान्वक्नोऽभिसर्पति …{Loading}…

अथ प्राङ्मुखो जान्वक्नोऽभिसर्पति २

03 इमान् धियं शिक्षमाणस्येति …{Loading}…

इमां धियं शिक्षमाणस्येति कृष्णाजिनं भसत्त आरोहति ३

04 सुत्रामाणमित्या रोहञ्जपति इमां …{Loading}…

सुत्रामाणमित्या रोहञ्जपति । इमां सु नावमारुहमित्यारूढः । आहं दीक्षामरुहमृतस्य पत्नीं गायत्रेण छन्दसा ब्रह्मणा चर्तं सत्येऽधायि सत्यमृतेऽधाय्यृतं च मे सत्यं चाभूतां ज्योतिरभूवं सुवरगमं सुवर्गं लोकं नाकस्य पृष्ठं ब्रध्नस्य विष्टपमगममिति च ४

05 अत्र पत्नी शिरसि …{Loading}…

अत्र पत्नी शिरसि कुम्बकुरीरमध्यूहते ५

06 कृष्णञ् जीवोर्णानामिति वाजसनेयकम् …{Loading}…

कृष्णं जीवोर्णानामिति वाजसनेयकम् ६

07 जालङ् कुम्बकुरीरमित्याचक्षते …{Loading}…

जालं कुम्बकुरीरमित्याचक्षते ७

08 विष्णोः शर्मासीत्यहतेन वाससा …{Loading}…

विष्णोः शर्मासीत्यहतेन वाससा दक्षिणमंसं यजमानः प्रोर्णुते । नक्षत्राणां मातीकाशात्पाहीति शिरः ८

09 उष्णीषेण प्रदक्षिणं शिरो …{Loading}…

उष्णीषेण प्रदक्षिणं शिरो वेष्टयत इति वाजसनेयकम् ९

10 न पुरा सोमस्य …{Loading}…

न पुरा सोमस्य क्रयादपोर्ण्वीतेत्युक्तम् १०

11 प्राचीनमात्रावाससा पत्नीन् दीक्षयति …{Loading}…

प्राचीनमात्रावाससा पत्नीं दीक्षयति ११

12 ऊर्ध्ववास्यम् ब्रुवते …{Loading}…

ऊर्ध्ववास्यं ब्रुवते १२

13 शरमयी मौञ्जी वा …{Loading}…

शरमयी मौञ्जी वा मेखला त्रिवृत्पृथव्यन्यतरतःपाशा । तया यजमानं दीक्षयति । योक्तेण पत्नीम् १३

14 ऊर्गसीति नाभिम् प्रतिपरिव्ययति …{Loading}…

ऊर्गसीति नाभिं प्रतिपरिव्ययति द्वेष्यं मनसा ध्यायन् १४

15 उत्तरेण नाभिन् निष्टर्क्यङ् …{Loading}…

उत्तरेण नाभिं निष्टर्क्यं ग्रन्थिं कृत्वा प्रदक्षिणं पर्यूह्य दक्षिणेन नाभिमवस्थापयति १५

16 अत्र दर्शपूर्णमासवत्पत्नीं सन्नह्यति …{Loading}…

अत्र दर्शपूर्णमासवत्पत्नीं सन्नह्यति । सं त्वा नह्यामीति विकारः १६

17 इन्द्रस्य योनिरसि मा …{Loading}…

इन्द्रस्य योनिरसि मा मा हिंसीरिति कृष्णविषाणां यजमानाय प्रयच्छति १७

18 आबध्नातीत्येके …{Loading}…

आबध्नातीत्येके १८

19 त्रिवलिः पञ्चवर्लिवा दक्षिणावृद्भवति …{Loading}…

त्रिवलिः पञ्चवर्लिवा दक्षिणावृद्भवति । सव्यावृदित्येके १९

इति नवमी कण्डिका


  1. East, south, west and north. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TB III.7.7.3-4. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. TB II.7.7.4. ↩︎