०८

01 आ वो देवास ...{Loading}...

आ वो देवास ईमह इति पूर्वया द्वारा प्राग्वंशं प्रविश्येन्द्राग्नी द्यावापृथिवी इत्यपरेणाहवनीयं दक्षिणातिक्रम्य त्वं दीक्षाणामधिपतिरसीत्याहवनीयमुपोपविशति १

02 एष एवात ऊर्ध्वं ...{Loading}...

एष एवात ऊर्ध्वं यजमानस्य सञ्चरो भवति २

03 अत्र दीक्षणीयामेके समामनन्ति ...{Loading}...

अत्र दीक्षणीयामेके समामनन्ति ३

04 पुरस्ताद्दीक्षाहुतीभ्यः सम्भारयजूंष्येके ...{Loading}...

पुरस्ताद्दीक्षाहुतीभ्यः सम्भारयजूंष्येके ४

05 यद्दीक्षणीयाया ध्रौवमाज्यन् ततो ...{Loading}...

यद्दीक्षणीयाया ध्रौवमाज्यं ततो दीक्षाहुतीः स्रुवेण चतस्रो जुहोति । स्रुचा पञ्चमीम् । आकूत्यै प्रयुजेऽग्नये स्वाहेत्येतैः प्रतिमन्त्रम् ५

06 द्वादशगृहीतेन स्रुचम् पूरयित्वा ...{Loading}...

द्वादशगृहीतेन स्रुचं पूरयित्वा विश्वे देवस्य नेतुरिति पूर्णाहुतिं षष्ठीम् ६

07 यत्राध्वर्युरौद्ग्रहणानि जुहोति तद्यजमानोऽध्वर्युमन्वारभ्य ...{Loading}...

यत्राध्वर्युरौद्ग्रहणानि जुहोति तद्यजमानोऽध्वर्युमन्वारभ्य पञ्च जुहोति वाचा मे वाग्दीक्षतां स्वाहा । प्राणेन मे प्राणो दीक्षतां स्वाहा । चक्षुषा मे चक्षुर्दीक्षतां स्वाहा । श्रोत्रेण मे श्रोत्रं दीक्षतां स्वाहा । मनसा मे मनो दीक्षतां स्वाहेति ७

08 अध्वर्युं वा जुह्वतमनुमन्त्रयते ...{Loading}...

अध्वर्युं वा जुह्वतमनुमन्त्रयते ८

09 वातम् प्राणम् मनसान्वारभामहे ...{Loading}...

वातं प्राणं मनसान्वारभामहे प्रजापतिं यो भुवनस्य गोपाः । स नो मृत्योस्त्रायतां पात्वंहसो ज्योग्जीवा जरामशीमहीति पूर्णाहुतिं हूयमानामनुमन्त्रयते ९

10 अत्र सम्भारयजूंष्येके ...{Loading}...

अत्र सम्भारयजूंष्येके १०

11 कृष्णाजिनेन यजमानन् दीक्षयति ...{Loading}...

कृष्णाजिनेन यजमानं दीक्षयति ११

12 द्वाभ्यां समस्य दीक्षेतान्तर्मांसाभ्याम् ...{Loading}...

द्वाभ्यां समस्य दीक्षेतान्तर्मांसाभ्यां बहिर्लोमाभ्याम् १२

13 यद्येकं स्याद्दक्षिणम् पूर्वपादम् ...{Loading}...

यद्येकं स्याद्दक्षिणं पूर्वपादं प्रतिषीव्येत् । अन्तान्वा १३

14 द्वे विषूची प्रतिमुञ्चेत ...{Loading}...

द्वे विषूची प्रतिमुञ्चेत पादं वा प्रतिषीव्येदित्येके १४

15 अन्तर्वेदि कृष्णाजिनम् प्राचीनग्रीवमुत्तरलोमास्तृणाति ...{Loading}...

अन्तर्वेदि कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमास्तृणाति १५

16 ऋक्सामयोः शिल्पे स्थ ...{Loading}...

ऋक्सामयोः शिल्पे स्थ इति शुक्लकृष्णे राजी आलभते । सम्मृशतीत्येके १६

इत्यष्टमी कण्डिका