01 आ वो देवास …{Loading}…
आ वो देवास ईमह इति पूर्वया द्वारा प्राग्वंशं प्रविश्येन्द्राग्नी द्यावापृथिवी इत्यपरेणाहवनीयं दक्षिणातिक्रम्य त्वं दीक्षाणामधिपतिरसीत्याहवनीयमुपोपविशति १
आ वो देवास ईमह इति पूर्वया द्वारा प्राग्वंशं प्रविश्येन्द्राग्नी द्यावापृथिवी इत्यपरेणाहवनीयं दक्षिणातिक्रम्य त्वं दीक्षाणामधिपतिरसीत्याहवनीयमुपोपविशति १
02 एष एवात ऊर्ध्वं …{Loading}…
एष एवात ऊर्ध्वं यजमानस्य सञ्चरो भवति २
थिते
- From now onwards this is the passage for the sacrificer.
एष एवात ऊर्ध्वं यजमानस्य सञ्चरो भवति २
03 अत्र दीक्षणीयामेके समामनन्ति …{Loading}…
अत्र दीक्षणीयामेके समामनन्ति ३
थिते
- According to the view of some ritualists the Dikṣaṇīya işṭi (should take place) now.
अत्र दीक्षणीयामेके समामनन्ति ३
04 पुरस्ताद्दीक्षाहुतीभ्यः सम्भारयजूंष्येके …{Loading}…
पुरस्ताद्दीक्षाहुतीभ्यः सम्भारयजूंष्येके ४
थिते
- According to the view of some ritualists the libations with Saṁbhāra-yajuṁṣi should be performed before the Dikṣā-libations.
पुरस्ताद्दीक्षाहुतीभ्यः सम्भारयजूंष्येके ४
05 यद्दीक्षणीयाया ध्रौवमाज्यन् ततो …{Loading}…
यद्दीक्षणीयाया ध्रौवमाज्यं ततो दीक्षाहुतीः स्रुवेण चतस्रो जुहोति । स्रुचा पञ्चमीम् । आकूत्यै प्रयुजेऽग्नये स्वाहेत्येतैः प्रतिमन्त्रम् ५
यद्दीक्षणीयाया ध्रौवमाज्यं ततो दीक्षाहुतीः स्रुवेण चतस्रो जुहोति । स्रुचा पञ्चमीम् । आकूत्यै प्रयुजेऽग्नये स्वाहेत्येतैः प्रतिमन्त्रम् ५
06 द्वादशगृहीतेन स्रुचम् पूरयित्वा …{Loading}…
द्वादशगृहीतेन स्रुचं पूरयित्वा विश्वे देवस्य नेतुरिति पूर्णाहुतिं षष्ठीम् ६
द्वादशगृहीतेन स्रुचं पूरयित्वा विश्वे देवस्य नेतुरिति पूर्णाहुतिं षष्ठीम् ६
07 यत्राध्वर्युरौद्ग्रहणानि जुहोति तद्यजमानोऽध्वर्युमन्वारभ्य …{Loading}…
यत्राध्वर्युरौद्ग्रहणानि जुहोति तद्यजमानोऽध्वर्युमन्वारभ्य पञ्च जुहोति वाचा मे वाग्दीक्षतां स्वाहा । प्राणेन मे प्राणो दीक्षतां स्वाहा । चक्षुषा मे चक्षुर्दीक्षतां स्वाहा । श्रोत्रेण मे श्रोत्रं दीक्षतां स्वाहा । मनसा मे मनो दीक्षतां स्वाहेति ७

08 अध्वर्युं वा जुह्वतमनुमन्त्रयते …{Loading}…
अध्वर्युं वा जुह्वतमनुमन्त्रयते ८
थिते
- Or when the Adhvaryu is offering (the Dīkṣa-libations) (the sacrificer) (only) follows him with these formulae.1
अध्वर्युं वा जुह्वतमनुमन्त्रयते ८
09 वातम् प्राणम् मनसान्वारभामहे …{Loading}…
वातं प्राणं मनसान्वारभामहे प्रजापतिं यो भुवनस्य गोपाः । स नो मृत्योस्त्रायतां पात्वंहसो ज्योग्जीवा जरामशीमहीति पूर्णाहुतिं हूयमानामनुमन्त्रयते ९
थिते
- When the full libation is being offered (the sacrificer) should follow it with vātaṁ prāņṁ manasānvārabhāmahe…1
वातं प्राणं मनसान्वारभामहे प्रजापतिं यो भुवनस्य गोपाः । स नो मृत्योस्त्रायतां पात्वंहसो ज्योग्जीवा जरामशीमहीति पूर्णाहुतिं हूयमानामनुमन्त्रयते ९
10 अत्र सम्भारयजूंष्येके …{Loading}…
अत्र सम्भारयजूंष्येके १०
थिते
- According to some ritualists the libations with sambhāra-yajūṁṣi should be offered at this stage.1
अत्र सम्भारयजूंष्येके १०
11 कृष्णाजिनेन यजमानन् दीक्षयति …{Loading}…
कृष्णाजिनेन यजमानं दीक्षयति ११
थिते
- (The Adhvaryu) consecrates the sacrificer by means of the black antelope-skin.1
कृष्णाजिनेन यजमानं दीक्षयति ११
12 द्वाभ्यां समस्य दीक्षेतान्तर्मांसाभ्याम् …{Loading}…
द्वाभ्यां समस्य दीक्षेतान्तर्मांसाभ्यां बहिर्लोमाभ्याम् १२
थिते
- (The sacrificer) should get himself consecrated by means of two (black-antelope-skins) with their fleshy sides insides and hairy sides outsides after having put one over the other.1
द्वाभ्यां समस्य दीक्षेतान्तर्मांसाभ्यां बहिर्लोमाभ्याम् १२
13 यद्येकं स्याद्दक्षिणम् पूर्वपादम् …{Loading}…
यद्येकं स्याद्दक्षिणं पूर्वपादं प्रतिषीव्येत् । अन्तान्वा १३
थिते
- If there is only one (skin), (the Adhvaryu) should (fold and) stich the front right foot or (he should fold and are the ends (of the skin).1
यद्येकं स्याद्दक्षिणं पूर्वपादं प्रतिषीव्येत् । अन्तान्वा १३
14 द्वे विषूची प्रतिमुञ्चेत …{Loading}…
द्वे विषूची प्रतिमुञ्चेत पादं वा प्रतिषीव्येदित्येके १४
द्वे विषूची प्रतिमुञ्चेत पादं वा प्रतिषीव्येदित्येके १४
15 अन्तर्वेदि कृष्णाजिनम् प्राचीनग्रीवमुत्तरलोमास्तृणाति …{Loading}…
अन्तर्वेदि कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमास्तृणाति १५
थिते
- Within the altar he should spread the skin of black antelope with its neck pointing to the east and with its hairy side upwards.
अन्तर्वेदि कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमास्तृणाति १५
16 ऋक्सामयोः शिल्पे स्थ …{Loading}…
ऋक्सामयोः शिल्पे स्थ इति शुक्लकृष्णे राजी आलभते । सम्मृशतीत्येके १६
ऋक्सामयोः शिल्पे स्थ इति शुक्लकृष्णे राजी आलभते । सम्मृशतीत्येके १६
इत्यष्टमी कण्डिका