०७

01 वृत्रस्य कनीनिकासीति त्रैककुदेनाञ्जनेनाङ्क्ते ...{Loading}...

वृत्रस्य कनीनिकासीति त्रैककुदेनाञ्जनेनाङ्क्ते १

02 यदि त्रैककुदन् नाधिगच्छेद्येनैव ...{Loading}...

यदि त्रैककुदं नाधिगच्छेद्येनैव केन चाञ्जनेनाञ्जीतेति वाजसनेयकम् २

03 सतूलया दर्भेषीकया शरेषीकया ...{Loading}...

सतूलया दर्भेषीकया शरेषीकया दर्भपुञ्जीलेन वाभ्यन्तरं द्विर्दक्षिणमनिधावमानः । सकृत्सव्यम् ३

04 अपि वा द्विर्दक्षिणन् ...{Loading}...

अपि वा द्विर्दक्षिणं त्रिः सव्यम् । त्रिस्त्रिर्वोभे ४

05 अथैनमुत्तरेण बहिः प्राग्वंशाद्दर्भपुञ्जीलैः ...{Loading}...

अथैनमुत्तरेण बहिः प्राग्वंशाद्दर्भपुञ्जीलैः पवयति ५

06 द्वाभ्याम् पवयति त्रिभिः ...{Loading}...

द्वाभ्यां पवयति त्रिभिः पवयतीत्युक्तम् ६

07 एकविंशत्या त्रेधा विभक्तया ...{Loading}...

एकविंशत्या त्रेधा विभक्तया सप्तभिःसप्तभिर्द्विरूर्ध्वं नाभेरुन्मार्ष्टि । सकृदवाक् ७

08 अन्वञ्चम् पावयतीत्येके ...{Loading}...

अन्वञ्चं पावयतीत्येके ८

09 यन् द्विष्यात्तन् तिर्यञ्चमक्ष्णया ...{Loading}...

यं द्विष्यात्तं तिर्यञ्चमक्ष्णया वा पावयेत् ९

10 चित्पतिस्त्वा पुनात्वित्येतैः प्रतिमन्त्रम् ...{Loading}...

चित्पतिस्त्वा पुनात्वित्येतैः प्रतिमन्त्रम् १०

11 अच्छिद्रेण पवित्रेणेति सर्वत्रानुषजति ...{Loading}...

अच्छिद्रेण पवित्रेणेति सर्वत्रानुषजति ११

12 चित्पतिर्मा पुनातु वाक्पतिर्मा ...{Loading}...

चित्पतिर्मा पुनातु वाक्पतिर्मा पुनातु देवो मा सविता पुनात्विति पाव्यमानो जपति १२

13 तस्य ते पवित्रपत ...{Loading}...

तस्य ते पवित्रपत इति च । पवमानः सुवर्जनः पवित्रेण विचर्षणिः । यः पोता स पुनातु मा । प्राजापत्यं पवित्रं शतोद्यामं हिरण्मयम् । तेन ब्रह्मविदो वयं पूतं ब्रह्म पुनीमह इति च १३

14 यद्देवा देवहेडनन् त्वमग्ने ...{Loading}...

यद्देवा देवहेडनं त्वमग्ने अयासीति च पूतः १४

15 प्राग्वा दीक्षणीयाया जुहुयात् ...{Loading}...

प्राग्वा दीक्षणीयाया जुहुयात् । जपेदित्येके १५

इति सप्तमी कण्डिका इति द्वितीयः पटलः


  1. TS I.2.1.i. See VI.1.1.5. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TS I.1.1.6. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎