०६

01 आपो अस्मान्मातरः शुन्धन्त्विति ...{Loading}...

आपो अस्मान्मातरः शुन्धन्त्विति । हिरण्यवर्णाः शुचयः पावकाः प्रचक्रमुर्हित्वावद्यमापः । शतं पवित्रा वितता ह्यासु ताभिर्नो देवः सविता पुनात्विति । हिरण्यवर्णाः शुचयः पावका इति चैताभ्याम् १

02 उदाभ्यः शुचिरापूत एमीत्युद्गाहमानो ...{Loading}...

उदाभ्यः शुचिरापूत एमीत्युद्गाहमानो जपति । अपोऽश्नाति २

03 एवम् पत्नी केशवर्जम् ...{Loading}...

एवं पत्नी केशवर्जम् ३

04 अथास्मै क्षौममहतम् महद्वासः ...{Loading}...

अथास्मै क्षौममहतं महद्वासः प्रयच्छति ४

05 तत्प्रतिगृह्णाति दीक्षासि तपसो ...{Loading}...

तत्प्रतिगृह्णाति दीक्षासि तपसो योनिस्तपोऽसि ब्रह्मणो योनिर्ब्रह्मासि क्षत्रस्य योनिः क्षत्रमस्यृतस्य योनिरृतमसि भूरारभे श्रद्धां मनसा दीक्षां तपसा विश्वस्य भुवनस्याधिपत्नीं सर्वे कामा यजमानस्य सन्त्विति ५

06 सोमस्य तनूरसि तनुवम् ...{Loading}...

सोमस्य तनूरसि तनुवं मे पाहि दीक्षासि तनूरसि तां त्वां शिवां स्योनां परिधिषीयेति तत्परिधाय सोमस्य नीविरसीति नीविमनुपरिकल्पयते ६

07 ऊर्जे त्वेत्यन्नमश्नाति सर्पिर्मिश्रन् ...{Loading}...

ऊर्जे त्वेत्यन्नमश्नाति सर्पिर्मिश्रं दधि मधु चाभ्युपसेकम् ७

08 यदस्य मनसः प्रतिप्रियन् ...{Loading}...

यदस्य मनसः प्रतिप्रियं तदश्नाति ८

09 तदेवास्यामुष्मिंल्लोके भवतीति विज्ञायते ...{Loading}...

तदेवास्यामुष्मिंल्लोके भवतीति विज्ञायते । तथाशितः स्याद्यथा ततो दीक्षासु कनीयःकनीयो व्रतमुपेयात् ९

10 पुरस्तात्केशवपनाद्वाससो वा परिधानाद्भोजनमेके ...{Loading}...

पुरस्तात्केशवपनाद्वाससो वा परिधानाद्भोजनमेके समामनन्ति १०

11 महीनाम् पयोऽसीति दर्भपुञ्जीलाभ्यान् ...{Loading}...

महीनां पयोऽसीति दर्भपुञ्जीलाभ्यां नवनीतमुद्यौति ११

12 वर्चोधा असीति तेन ...{Loading}...

वर्चोधा असीति तेन पराचीनं त्रिरभ्यङ्क्ते । मुखमग्रे १२

13 अनुलोममङ्गानि स्वक्तो भवति ...{Loading}...

अनुलोममङ्गानि । स्वक्तो भवति १३

इति षष्ठी कण्डिका


  1. TS I.2.1.f. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. MS I.2.1. ↩︎ ↩︎ ↩︎ ↩︎

  3. TS V.6.1.a-b; see MS II. 6.2. ↩︎