०५

01 प्राचीनवंशङ् करोति पुरस्तादुन्नतम् ...{Loading}...

प्राचीनवंशं करोति पुरस्तादुन्नतं पश्चान्निनतं सर्वतः परिश्रितम् १

02 अवान्तरदिक्षु स्रक्तयः ...{Loading}...

अवान्तरदिक्षु स्रक्तयः २

03 स्रक्तिष्वारोकान्करोति ...{Loading}...

स्रक्तिष्वारोकान्करोति ३

04 प्रतिदिशन् द्वाराणि ...{Loading}...

प्रतिदिशं द्वाराणि ४

05 पुरस्ताद्द्वारं स्वर्गकामः दक्षिणतो ...{Loading}...

पुरस्ताद्द्वारं स्वर्गकामः । दक्षिणतो यः कामयेत पितृलोक ऋध्रुयामिति । पश्चान्मनुष्यलोककामः । उत्तरतो यः कामयेत देवलोक ऋध्नुयामिति । उत्तरतः पुरस्ताद्यः कामयेतोभयोर्लोकयोरृध्नुयामिति । सर्वतो यः कामयेत सर्वासु दिक्ष्वृध्नुयामिति ५

06 उत्तरेण बहिः प्राग्वंशम् ...{Loading}...

उत्तरेण बहिः प्राग्वंशं म्परिश्रिते यजमानः केशश्मश्रु वापयते ६

07 उपपक्षावग्रेऽथ श्मश्रूण्यथ केशान् ...{Loading}...

उपपक्षावग्रेऽथ श्मश्रूण्यथ केशान् । अपि वा श्मश्रूण्युपपक्षावथ केशान् ७

08 आप उन्दन्त्विति दक्षिणङ् ...{Loading}...

आप उन्दन्त्विति दक्षिणं गोदानमुनत्ति । ओषधे त्रायस्वैनमिति प्रागग्रं दर्भमन्तर्धाय स्वधिते मैनं हिंसीरिति स्वधितिनाभिनिधाय देवश्रूरिति प्रवपति ८

09 एवमुत्तरङ् गोदानम् ...{Loading}...

एवमुत्तरं गोदानम् ९

10 ओषधे त्रायस्व मा ...{Loading}...

ओषधे त्रायस्व मा स्वधिते मा मा हिंसीः स्वस्त्युत्तराण्यशीयेति यजमानो जपति १०

11 अभ्यन्तरन् नखानि कारयते ...{Loading}...

अभ्यन्तरं नखानि कारयते ११

12 सव्यस्याग्रे कनिष्ठिकातः ...{Loading}...

सव्यस्याग्रे कनिष्ठिकातः १२

13 हस्त्यान्यग्रेऽथ पद्यानि ...{Loading}...

हस्त्यान्यग्रेऽथ पद्यानि १३

14 औदुम्बरेण दतो धावते ...{Loading}...

औदुम्बरेण दतो धावते लोहितमनभिगमयन् १४

15 स्थावरास्वप्सु स्नाति शङ्खिनीष्ववकिनीषु ...{Loading}...

स्थावरास्वप्सु स्नाति शङ्खिनीष्ववकिनीषु लोमशे तीर्थे १५

16 कुण्डे हिरण्यमवधाय तस्मिन्स्नातीति ...{Loading}...

कुण्डे हिरण्यमवधाय तस्मिन्स्नातीति वाजसनेयकम् १६

इति पञ्चमी कण्डिका


  1. Cf.. KS XXII.13; MS III.6.1; ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. MS III.6.2. ↩︎ ↩︎ ↩︎

  3. TS I.2.1.b ↩︎ ↩︎

  4. TS I.2.1.e. ↩︎

  5. TS I.2.1.d. ↩︎