०४

01 दीक्षणीयायास्तन्त्रम् प्रक्रमयति ...{Loading}...

दीक्षणीयायास्तन्त्रं प्रक्रमयति १

02 आग्नावैष्णवमेकादशकपालन् निर्वपति आग्नावैष्णवं ...{Loading}...

आग्नावैष्णवमेकादशकपालं निर्वपति । आग्नावैष्णवं वा घृते चरुम् २

03 पुरोडाशो ब्रह्मवर्चसकामस्य घृते ...{Loading}...

पुरोडाशो ब्रह्मवर्चसकामस्य । घृते चरुः प्रजाकामस्य पशुकामस्य वा ३

04 आदित्यङ् घृते चरुन् ...{Loading}...

आदित्यं घृते चरुं द्वितीयं प्रजाकामपशुकामस्यैके समामनन्ति ४

05 पञ्चदश सप्तदश वा ...{Loading}...

पञ्चदश सप्तदश वा सामिधेन्यः ५

06 प्राग्वंशमेके पूर्वं समामनन्ति ...{Loading}...

प्राग्वंशमेके पूर्वं समामनन्ति । दीक्षणीयामेके ६

07 पत्नीसंयाजान्ता दीक्षणीया सन्तिष्ठते ...{Loading}...

पत्नीसंयाजान्ता दीक्षणीया संतिष्ठते ७

08 धारयति ध्रौवमाज्यम् ...{Loading}...

धारयति ध्रौवमाज्यम् ८

09 यत्प्रागग्नीषोमीयात्तेनोपांशु चरति ...{Loading}...

यत्प्रागग्नीषोमीयात्तेनोपांशु चरति ९

10 अथैकेषाम् यावत्यस्य वाग्भवति ...{Loading}...

अथैकेषाम् । यावत्यस्य वाग्भवति तावतीं दीक्षणीयायामन्वाह । ततो नीचैस्तरां प्रायणीयायाम् । नीचैस्तरामातिथ्यायाम् । उपांशूपसत्सु । उच्चैरग्नीषोमीये १०

11 मन्द्रेण दीक्षणीयायाम् मन्द्रतरेण ...{Loading}...

मन्द्रेण दीक्षणीयायाम् । मन्द्रतरेण प्रायणीयायाम् । मन्द्रतरेणातिथ्यायाम् । उपांशूपसत्सु । उच्चैरग्नीषोमीये । उपांशु वा दीक्षणीयायाम् । उपांशुतरं प्रायणीयायाम् । उपांशुतरमातिथ्यायाम् । उपांशूपसत्सु । उच्चैरग्नीषोमीये ११

12 दर्शपूर्णमासप्रकृतीनां सोमेऽग्न्यन्वाधानं व्रतोपायनमारण्याशनञ् ...{Loading}...

दर्शपूर्णमासप्रकृतीनां सोमेऽग्न्यन्वाधानं व्रतोपायनमारण्याशनं जागरणमन्वाहार्यस्य च दानं पत्न्याः सन्नहनं विमोचनमिति न विद्यन्ते १२

13 अग्न्यन्वाधानन् तु दीक्षणीयायाङ् ...{Loading}...

अग्न्यन्वाधानं तु दीक्षणीयायां क्रियेत पत्न्याश्च सन्नहनम् १३

14 दीक्षासु यूपङ् कारयति ...{Loading}...

दीक्षासु यूपं कारयति १४

15 क्रीते राजन्युपसत्सु वा ...{Loading}...

क्रीते राजन्युपसत्सु वा १५

इति चतुर्थी कण्डिका इति प्रथमः पटलः


  1. Cp. TB 1.5.9.2. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. MS III.6.1. ↩︎ ↩︎ ↩︎