01 दीक्षणीयायास्तन्त्रम् प्रक्रमयति …{Loading}…
दीक्षणीयायास्तन्त्रं प्रक्रमयति १
थिते
- (The Adhvaryu) begins the procedure of the Dikṣaṇīyā offering.
दीक्षणीयायास्तन्त्रं प्रक्रमयति १
02 आग्नावैष्णवमेकादशकपालन् निर्वपति आग्नावैष्णवं …{Loading}…
आग्नावैष्णवमेकादशकपालं निर्वपति । आग्नावैष्णवं वा घृते चरुम् २
आग्नावैष्णवमेकादशकपालं निर्वपति । आग्नावैष्णवं वा घृते चरुम् २
03 पुरोडाशो ब्रह्मवर्चसकामस्य घृते …{Loading}…
पुरोडाशो ब्रह्मवर्चसकामस्य । घृते चरुः प्रजाकामस्य पशुकामस्य वा ३
थिते
- In the ease of a sacrificer desirous of the Brahman-splendour there should be the sacrificial bread; In the case of (a sacrificer) desirous of progeny or of cattle, there should be rice-pap in ghee.1
पुरोडाशो ब्रह्मवर्चसकामस्य । घृते चरुः प्रजाकामस्य पशुकामस्य वा ३
04 आदित्यङ् घृते चरुन् …{Loading}…
आदित्यं घृते चरुं द्वितीयं प्रजाकामपशुकामस्यैके समामनन्ति ४
थिते
- According to the opinion of some (ritualists) in the case of a sacrificer desirous of progeny or desirous of cattle there should be the second (offering of) rice-pap in (with) ghee for Ādityas.
आदित्यं घृते चरुं द्वितीयं प्रजाकामपशुकामस्यैके समामनन्ति ४
05 पञ्चदश सप्तदश वा …{Loading}…
पञ्चदश सप्तदश वा सामिधेन्यः ५
पञ्चदश सप्तदश वा सामिधेन्यः ५
06 प्राग्वंशमेके पूर्वं समामनन्ति …{Loading}…
प्राग्वंशमेके पूर्वं समामनन्ति । दीक्षणीयामेके ६
थिते
- According to some ritualists the preparation of Prāgvaṁśa (shed) should be done first; according to some others the performance of the Dīkṣaṇīyā-offering should be done first.
प्राग्वंशमेके पूर्वं समामनन्ति । दीक्षणीयामेके ६
07 पत्नीसंयाजान्ता दीक्षणीया सन्तिष्ठते …{Loading}…
पत्नीसंयाजान्ता दीक्षणीया संतिष्ठते ७
थिते
- The Dikṣaṇīya-offering stands completely established (i.e. concluded) ending with the Patnīsaṁyājas.1
पत्नीसंयाजान्ता दीक्षणीया संतिष्ठते ७
08 धारयति ध्रौवमाज्यम् …{Loading}…
धारयति ध्रौवमाज्यम् ८
थिते
- He holds (i.e. preserves) the ghee in the Dhruvā.1
धारयति ध्रौवमाज्यम् ८
09 यत्प्रागग्नीषोमीयात्तेनोपांशु चरति …{Loading}…
यत्प्रागग्नीषोमीयात्तेनोपांशु चरति ९
यत्प्रागग्नीषोमीयात्तेनोपांशु चरति ९
10 अथैकेषाम् यावत्यस्य वाग्भवति …{Loading}…
अथैकेषाम् । यावत्यस्य वाग्भवति तावतीं दीक्षणीयायामन्वाह । ततो नीचैस्तरां प्रायणीयायाम् । नीचैस्तरामातिथ्यायाम् । उपांशूपसत्सु । उच्चैरग्नीषोमीये १०
थिते
- Now according to some (ritualists),1 one should recite in one’s usual tone at the time of the Dīkṣaṇīya-offering; in a lower tone than that at the time of the Prāyaṇīyā-offering; in a still lower tone at the time of the Ātithyā-offerings; inaudibly at the time of the Upasad-offerings loudly at the time of the animal sacrifice for Agni-and-Soma.
अथैकेषाम् । यावत्यस्य वाग्भवति तावतीं दीक्षणीयायामन्वाह । ततो नीचैस्तरां प्रायणीयायाम् । नीचैस्तरामातिथ्यायाम् । उपांशूपसत्सु । उच्चैरग्नीषोमीये १०
11 मन्द्रेण दीक्षणीयायाम् मन्द्रतरेण …{Loading}…
मन्द्रेण दीक्षणीयायाम् । मन्द्रतरेण प्रायणीयायाम् । मन्द्रतरेणातिथ्यायाम् । उपांशूपसत्सु । उच्चैरग्नीषोमीये । उपांशु वा दीक्षणीयायाम् । उपांशुतरं प्रायणीयायाम् । उपांशुतरमातिथ्यायाम् । उपांशूपसत्सु । उच्चैरग्नीषोमीये ११
थिते
- In a deep tone at the time of the Dīkṣaṇīyā-offering; in a deeper tone at the time of the Prāyaṇīyā-offering; in a still deeper tone at the time of the Ātithya-offering; inaudibly at the time of Upasad-offerings; loudly at the time of the animal sacrifice for Agni and Soma. Or inaudibly at the time of the Dīkṣaṇīya-offering; more inaudibly at the time of the Prāyaṇīya offering; inaudibly at the time of the Upasad-offerings; loudly at the time of the animal-sacrifice for Agni-and Soma.
मन्द्रेण दीक्षणीयायाम् । मन्द्रतरेण प्रायणीयायाम् । मन्द्रतरेणातिथ्यायाम् । उपांशूपसत्सु । उच्चैरग्नीषोमीये । उपांशु वा दीक्षणीयायाम् । उपांशुतरं प्रायणीयायाम् । उपांशुतरमातिथ्यायाम् । उपांशूपसत्सु । उच्चैरग्नीषोमीये ११
12 दर्शपूर्णमासप्रकृतीनां सोमेऽग्न्यन्वाधानं व्रतोपायनमारण्याशनञ् …{Loading}…
दर्शपूर्णमासप्रकृतीनां सोमेऽग्न्यन्वाधानं व्रतोपायनमारण्याशनं जागरणमन्वाहार्यस्य च दानं पत्न्याः सन्नहनं विमोचनमिति न विद्यन्ते १२
थिते
- In a Soma-sacrifice (the offerings) (Iṣṭis) having the New-and-Full-moon-offerings as the basic paradigm, do not contain (the following rites): adding fuel to fires, entering into vow, eating of the forest products, waking, giving the Anvāhārya (-mess), binding and setting free (the girdle) of the wife of the sacrificer.
दर्शपूर्णमासप्रकृतीनां सोमेऽग्न्यन्वाधानं व्रतोपायनमारण्याशनं जागरणमन्वाहार्यस्य च दानं पत्न्याः सन्नहनं विमोचनमिति न विद्यन्ते १२
13 अग्न्यन्वाधानन् तु दीक्षणीयायाङ् …{Loading}…
अग्न्यन्वाधानं तु दीक्षणीयायां क्रियेत पत्न्याश्च सन्नहनम् १३
थिते
- In the Dīkṣaṇīya-offering, however, adding fuel to the fire and binding girdle of the wife of the sacrificer is done.
अग्न्यन्वाधानं तु दीक्षणीयायां क्रियेत पत्न्याश्च सन्नहनम् १३
14 दीक्षासु यूपङ् कारयति …{Loading}…
दीक्षासु यूपं कारयति १४
थिते
- The Adhvaryu causes (the carpenter) to prepare the sacrificial post during the Dīkṣā-days
दीक्षासु यूपं कारयति १४
15 क्रीते राजन्युपसत्सु वा …{Loading}…
क्रीते राजन्युपसत्सु वा १५
थिते
- or during the Upasad days after the (Soma-) king is purchased.
क्रीते राजन्युपसत्सु वा १५
इति चतुर्थी कण्डिका इति प्रथमः पटलः