०३

01 राजा देवयजनं याचति ...{Loading}...

राजा देवयजनं याचति । अग्निर्होता स मे होता होतर्देवयजनं मे देहीति होतारम् । आदित्योऽध्वर्युः स मेऽध्वर्युरध्वर्यो देवयजनं मे देहीत्यध्वर्युम् । चन्द्रमा ब्रह्मा स मे ब्रह्मा ब्रह्मन्देवयजनं मे देहीति ब्रह्माणम् । पर्जन्य उद्गाता स म उद्गातोद्गातर्देवयजनं मे देहीत्युद्गातारम् । आकाशः सदस्यः स मे सदस्यः सदस्य देवयजनं मे देहीति सदस्यम् । आपो होत्राशंसिनस्ते मे होत्राशंसिनो होत्राशंसिनो देवयजनं मे दत्तेति होत्रकान् । रश्मयश्चमसाध्वर्यवस्ते मे चमसाध्वर्यवश्चमसाध्वर्यवो देवयजनं मे दत्तेति चमसाध्वर्यून् १

02 अपि वा न ...{Loading}...

अपि वा न देवयजनं याचेत् । देवता एवोपतिष्ठेत सक्षेदं पश्य विधर्तरिदं पश्य नाकेदं पश्य । रमतिः पनिष्ठर्तं वर्षिष्ठममृता यान्याहुः सूर्यो वरिष्ठो अक्षभिर्विभात्यनु द्यावापृथिवी देवपुत्रे इति २

03 एदमगन्म देवयजनम् पृथिव्या ...{Loading}...

एदमगन्म देवयजनं पृथिव्या इति देवयजनमध्यवस्यति ३

04 प्राग्वंशस्य मध्यमं स्थूणाराजमारभ्य ...{Loading}...

प्राग्वंशस्य मध्यमं स्थूणाराजमारभ्य जपतीति वाजसनेयकम् ४

05 ततः सम्भारयजूंषि जुहोति ...{Loading}...

ततः सम्भारयजूंषि जुहोति ५

06 अग्निर्यजुर्भिः सविता स्तोमैरित्येषोऽनुवाक ...{Loading}...

अग्निर्यजुर्भिः सविता स्तोमैरित्येषोऽनुवाक आम्नातः ६

07 अत्र राजानमाहृत्य पयसौदनेन ...{Loading}...

अत्र राजानमाहृत्य पयसौदनेन परिवेविषन्त्या क्रयात् ७

08 स्वे दक्षे दक्षपितेह ...{Loading}...

स्वे दक्षे दक्षपितेह सीद देवानां सुम्नो महते रणाय । स्वासस्थस्तनुवा संविशस्व पितेवैधि सूनव आ सुशेवः । शिवो मा शिवमाविश सत्यं म आत्मा श्रद्धा मेऽक्षितिस्तपो मे प्रतिष्ठा । सवितृप्रसूता मा दिशो दीक्षयन्तु सत्यमस्मीति पुरस्ताद्दीक्षणीयाया आहवनीयं यजमान उपतिष्ठते । सप्तहोतारं मनसानुद्रुत्याहवनीये सग्रहं हुत्वा ८

इति तृतीया कण्डिका


  1. Cp. ŚaḍB II. 10.8-9. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS I.3.2.0. ↩︎ ↩︎ ↩︎

  3. Cf. TB IV.2.2.5. The sentence is incomplete. See the next Sūtra. ↩︎