01 राजा देवयजनं याचति …{Loading}…
राजा देवयजनं याचति । अग्निर्होता स मे होता होतर्देवयजनं मे देहीति होतारम् । आदित्योऽध्वर्युः स मेऽध्वर्युरध्वर्यो देवयजनं मे देहीत्यध्वर्युम् । चन्द्रमा ब्रह्मा स मे ब्रह्मा ब्रह्मन्देवयजनं मे देहीति ब्रह्माणम् । पर्जन्य उद्गाता स म उद्गातोद्गातर्देवयजनं मे देहीत्युद्गातारम् । आकाशः सदस्यः स मे सदस्यः सदस्य देवयजनं मे देहीति सदस्यम् । आपो होत्राशंसिनस्ते मे होत्राशंसिनो होत्राशंसिनो देवयजनं मे दत्तेति होत्रकान् । रश्मयश्चमसाध्वर्यवस्ते मे चमसाध्वर्यवश्चमसाध्वर्यवो देवयजनं मे दत्तेति चमसाध्वर्यून् १
थिते
- The king begs (of the priests) the place of sacrifice. Thus with agnirhota … of the Hotr̥, with ādityo’dhvaryuḥ… of the Adhvaryu; with candramā brahmā … of the Brahman; with parjanya udgātā… of the Udgātr̥; ākāśaḥ sadasyaḥ… Of the Sadasya; āpo hotrāśaṁsinaḥ… of the Hotrakas; with raśmayaścamasādhvaryavaḥ… of the Camasādhvaryus.1
राजा देवयजनं याचति । अग्निर्होता स मे होता होतर्देवयजनं मे देहीति होतारम् । आदित्योऽध्वर्युः स मेऽध्वर्युरध्वर्यो देवयजनं मे देहीत्यध्वर्युम् । चन्द्रमा ब्रह्मा स मे ब्रह्मा ब्रह्मन्देवयजनं मे देहीति ब्रह्माणम् । पर्जन्य उद्गाता स म उद्गातोद्गातर्देवयजनं मे देहीत्युद्गातारम् । आकाशः सदस्यः स मे सदस्यः सदस्य देवयजनं मे देहीति सदस्यम् । आपो होत्राशंसिनस्ते मे होत्राशंसिनो होत्राशंसिनो देवयजनं मे दत्तेति होत्रकान् । रश्मयश्चमसाध्वर्यवस्ते मे चमसाध्वर्यवश्चमसाध्वर्यवो देवयजनं मे दत्तेति चमसाध्वर्यून् १
02 अपि वा न …{Loading}…
अपि वा न देवयजनं याचेत् । देवता एवोपतिष्ठेत सक्षेदं पश्य विधर्तरिदं पश्य नाकेदं पश्य । रमतिः पनिष्ठर्तं वर्षिष्ठममृता यान्याहुः सूर्यो वरिष्ठो अक्षभिर्विभात्यनु द्यावापृथिवी देवपुत्रे इति २
थिते
- Or, rather, he should not beg the place of sacrifice. He should only stand while praising the deities with sakṣedam paśya….1
अपि वा न देवयजनं याचेत् । देवता एवोपतिष्ठेत सक्षेदं पश्य विधर्तरिदं पश्य नाकेदं पश्य । रमतिः पनिष्ठर्तं वर्षिष्ठममृता यान्याहुः सूर्यो वरिष्ठो अक्षभिर्विभात्यनु द्यावापृथिवी देवपुत्रे इति २
03 एदमगन्म देवयजनम् पृथिव्या …{Loading}…
एदमगन्म देवयजनं पृथिव्या इति देवयजनमध्यवस्यति ३

04 प्राग्वंशस्य मध्यमं स्थूणाराजमारभ्य …{Loading}…
प्राग्वंशस्य मध्यमं स्थूणाराजमारभ्य जपतीति वाजसनेयकम् ४
थिते
- According to the opinion of the Vājasaneyins1 (the sacrificer) should mutter (the verse etadaganma…) after having held the middle big beam of the Prāgvaṁśa(-hall).
प्राग्वंशस्य मध्यमं स्थूणाराजमारभ्य जपतीति वाजसनेयकम् ४
05 ततः सम्भारयजूंषि जुहोति …{Loading}…
ततः सम्भारयजूंषि जुहोति ५
थिते
- Then i.e. after the Vihāra is prepared, Āhavanīya-fire is taken from the Gārhapatya and established) (the Adhvaryu) offers the libations with the Saṁbhārayajus-formulae.
ततः सम्भारयजूंषि जुहोति ५
06 अग्निर्यजुर्भिः सविता स्तोमैरित्येषोऽनुवाक …{Loading}…
अग्निर्यजुर्भिः सविता स्तोमैरित्येषोऽनुवाक आम्नातः ६

07 अत्र राजानमाहृत्य पयसौदनेन …{Loading}…
अत्र राजानमाहृत्य पयसौदनेन परिवेविषन्त्या क्रयात् ७
थिते
- At this stage having brought the Soma-king, they should serve it by means of rice-pap (cooked) in milk, upto the parchase of Soma.1
अत्र राजानमाहृत्य पयसौदनेन परिवेविषन्त्या क्रयात् ७
08 स्वे दक्षे दक्षपितेह …{Loading}…
स्वे दक्षे दक्षपितेह सीद देवानां सुम्नो महते रणाय । स्वासस्थस्तनुवा संविशस्व पितेवैधि सूनव आ सुशेवः । शिवो मा शिवमाविश सत्यं म आत्मा श्रद्धा मेऽक्षितिस्तपो मे प्रतिष्ठा । सवितृप्रसूता मा दिशो दीक्षयन्तु सत्यमस्मीति पुरस्ताद्दीक्षणीयाया आहवनीयं यजमान उपतिष्ठते । सप्तहोतारं मनसानुद्रुत्याहवनीये सग्रहं हुत्वा ८

इति तृतीया कण्डिका