०२

01 स्वर्गकामो ज्योतिष्टोमेन यजेत ...{Loading}...

स्वर्गकामो ज्योतिष्टोमेन यजेत । एककामः सर्वकामो वाऽयुगपत्कामयेताहारपृथक्त्वे वा १

02 वसन्ते ज्योतिष्टोमेन यजेत ...{Loading}...

वसन्ते ज्योतिष्टोमेन यजेत २

03 अग्निष्टोमः प्रथमयज्ञः ...{Loading}...

अग्निष्टोमः प्रथमयज्ञः ३

04 अतिरात्रमेके पूर्वं समामनन्ति ...{Loading}...

अतिरात्रमेके पूर्वं समामनन्ति ४

05 वसन्तेवसन्ते ज्योतिष्टोमेन यजेत ...{Loading}...

वसन्तेवसन्ते ज्योतिष्टोमेन यजेत । तस्य तिस्रो दक्षिणा इति छन्दोगब्राह्मणं भवति ५

06 रथन्तरसाम्ना बृहत्साम्नोभयसाम्ना वा ...{Loading}...

रथन्तरसाम्ना बृहत्साम्नोभयसाम्ना वा प्रथमं यजेत ६

07 न रथन्तरसामानमकृत्वा बृहत्सामानमाहरेदित्येके ...{Loading}...

न रथन्तरसामानमकृत्वा बृहत्सामानमाहरेदित्येके ७

08 यदीष्ट्या यदि पशुना ...{Loading}...

यदीष्ट्या यदि पशुना यदि सोमेन यजेतामावास्यायां वैव पौर्णमास्यां वा यजेत ८

09 देव वरुण देवयजनम् ...{Loading}...

देव वरुण देवयजनं मे देहीति यजमानो राजानं देवयजनं याचेत् ९

10 स यदि ददाति ...{Loading}...

स यदि ददाति देवयजनवान्भूया इत्येनमाह । यदि न ददाति यदहं देवयजनम् वेद तस्मिंस्त्वा देवयजन आ क्षिणोमीति १०

11 अथैनमनुव्याहरन्ति मन उपावधीर्मनस्त्वा ...{Loading}...

अथैनमनुव्याहरन्ति । मन उपावधीर्मनस्त्वा हास्यतीति ब्रह्मा । वाचमुपावधीर्वाक्त्वा हास्यतीति होता । प्राणमुपावधीः प्राणस्त्वा हास्यतीत्यध्वर्युः । चक्षुरुपावधीश्चक्षुस्त्वा हास्यतीत्युद्गाता । आत्मानमुपावधीरात्मा त्वा हास्यतीति सदस्यः । प्रजातिमुपावधीः प्रजा त्वा हास्यतीति यजमानः । अङ्गान्युपावधीरङ्गानि त्वा हास्यन्तीति होत्रकाः । भूतान्युपावधीर्भूतानि त्वा हास्यन्तीति सर्व ऋत्विजः ११

इति द्वितीया कण्डिका


  1. i.e. the Agniṣṭoma Jyotiṣṭoma. Thus it is a sacrifice in which there are four jyotis (lights) viz. Trivr̥t-stoma, Pañcadaśa-stoma, Saptadśastoma, and Ekaviṁśa-stoma. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cp. TMB VI.3.2. ↩︎

  3. Cp. III. 14.8-10. ↩︎