01 स्वर्गकामो ज्योतिष्टोमेन यजेत …{Loading}…
स्वर्गकामो ज्योतिष्टोमेन यजेत । एककामः सर्वकामो वाऽयुगपत्कामयेताहारपृथक्त्वे वा १
स्वर्गकामो ज्योतिष्टोमेन यजेत । एककामः सर्वकामो वाऽयुगपत्कामयेताहारपृथक्त्वे वा १
02 वसन्ते ज्योतिष्टोमेन यजेत …{Loading}…
वसन्ते ज्योतिष्टोमेन यजेत २
थिते
- One should perform the Jyotiṣṭoma in spring.
वसन्ते ज्योतिष्टोमेन यजेत २
03 अग्निष्टोमः प्रथमयज्ञः …{Loading}…
अग्निष्टोमः प्रथमयज्ञः ३
थिते
- The Agniṣṭoma (should be performed as) the first sacrifice by any sacrificer.1
अग्निष्टोमः प्रथमयज्ञः ३
04 अतिरात्रमेके पूर्वं समामनन्ति …{Loading}…
अतिरात्रमेके पूर्वं समामनन्ति ४
थिते
- Some ritualists1 are of the view that Atirātra is the first sacrifice to be performed by a sacrificer.
अतिरात्रमेके पूर्वं समामनन्ति ४
05 वसन्तेवसन्ते ज्योतिष्टोमेन यजेत …{Loading}…
वसन्तेवसन्ते ज्योतिष्टोमेन यजेत । तस्य तिस्रो दक्षिणा इति छन्दोगब्राह्मणं भवति ५
वसन्तेवसन्ते ज्योतिष्टोमेन यजेत । तस्य तिस्रो दक्षिणा इति छन्दोगब्राह्मणं भवति ५
06 रथन्तरसाम्ना बृहत्साम्नोभयसाम्ना वा …{Loading}…
रथन्तरसाम्ना बृहत्साम्नोभयसाम्ना वा प्रथमं यजेत ६
थिते
- One should perform the first Soma-sacrifice with Rathantara or Br̥hat, or both the Sāmans.1
रथन्तरसाम्ना बृहत्साम्नोभयसाम्ना वा प्रथमं यजेत ६
07 न रथन्तरसामानमकृत्वा बृहत्सामानमाहरेदित्येके …{Loading}…
न रथन्तरसामानमकृत्वा बृहत्सामानमाहरेदित्येके ७
थिते
- According to some (ritualists) one should not perform the sacrifice with Br̥hatsāman without having previously performed a sacrifice with Rathantara-sāman.
न रथन्तरसामानमकृत्वा बृहत्सामानमाहरेदित्येके ७
08 यदीष्ट्या यदि पशुना …{Loading}…
यदीष्ट्या यदि पशुना यदि सोमेन यजेतामावास्यायां वैव पौर्णमास्यां वा यजेत ८
थिते
- When one performs an Iṣṭi or an animal-sacrifice or a Soma-sacrifice one should perform it either on the New-moon day or Full-moon-day.
यदीष्ट्या यदि पशुना यदि सोमेन यजेतामावास्यायां वैव पौर्णमास्यां वा यजेत ८
09 देव वरुण देवयजनम् …{Loading}…
देव वरुण देवयजनं मे देहीति यजमानो राजानं देवयजनं याचेत् ९
थिते
- (The sacrificer) should beg of the king a place for sacrifice with deva varuņa devayajanaṁ me dehi.1
देव वरुण देवयजनं मे देहीति यजमानो राजानं देवयजनं याचेत् ९
10 स यदि ददाति …{Loading}…
स यदि ददाति देवयजनवान्भूया इत्येनमाह । यदि न ददाति यदहं देवयजनम् वेद तस्मिंस्त्वा देवयजन आ क्षिणोमीति १०
थिते
- If (the king) gives (the land) the sacrificer should say to him, “May you be a possessor of a place of sacrifice”. It he does not give, the sacrificer should say, “I destroy you in that place of sacrifice which I know”.1
स यदि ददाति देवयजनवान्भूया इत्येनमाह । यदि न ददाति यदहं देवयजनम् वेद तस्मिंस्त्वा देवयजन आ क्षिणोमीति १०
11 अथैनमनुव्याहरन्ति मन उपावधीर्मनस्त्वा …{Loading}…
अथैनमनुव्याहरन्ति । मन उपावधीर्मनस्त्वा हास्यतीति ब्रह्मा । वाचमुपावधीर्वाक्त्वा हास्यतीति होता । प्राणमुपावधीः प्राणस्त्वा हास्यतीत्यध्वर्युः । चक्षुरुपावधीश्चक्षुस्त्वा हास्यतीत्युद्गाता । आत्मानमुपावधीरात्मा त्वा हास्यतीति सदस्यः । प्रजातिमुपावधीः प्रजा त्वा हास्यतीति यजमानः । अङ्गान्युपावधीरङ्गानि त्वा हास्यन्तीति होत्रकाः । भूतान्युपावधीर्भूतानि त्वा हास्यन्तीति सर्व ऋत्विजः ११
थिते
- Then (the priests etc. also) curse the king. Thus the Brahman curses with mana upāvadhiḥ, …; the Hotr̥ curses him with vācamupāvadhīḥ…; the Adhvaryu curses him with prāņamupāvadhiḥ…; the Udgātr̥ curses him with cakṣurupāvadhīḥ; the Sadasya curses him with ātmānamupāvadhīḥ…: the sacrificer curses him with prajāpatimupāvadhīḥ…; the hotrakas curse him with aṅgānyupāvadhīḥ…; all the priests curses him with bhūtānyupāvadhīḥ…1
अथैनमनुव्याहरन्ति । मन उपावधीर्मनस्त्वा हास्यतीति ब्रह्मा । वाचमुपावधीर्वाक्त्वा हास्यतीति होता । प्राणमुपावधीः प्राणस्त्वा हास्यतीत्यध्वर्युः । चक्षुरुपावधीश्चक्षुस्त्वा हास्यतीत्युद्गाता । आत्मानमुपावधीरात्मा त्वा हास्यतीति सदस्यः । प्रजातिमुपावधीः प्रजा त्वा हास्यतीति यजमानः । अङ्गान्युपावधीरङ्गानि त्वा हास्यन्तीति होत्रकाः । भूतान्युपावधीर्भूतानि त्वा हास्यन्तीति सर्व ऋत्विजः ११
इति द्वितीया कण्डिका