०१

01 सोमेन यक्ष्यमाणो ब्राह्मणानार्षेयानृत्विजो ...{Loading}...

सोमेन यक्ष्यमाणो ब्राह्मणानार्षेयानृत्विजो वृणीते यृनः स्थविरान्वानूचानानूर्ध्ववाचोऽनङ्गहीनान् १

02 तेभ्यः सोमम् प्राह ...{Loading}...

तेभ्यः सोमं प्राह २

03 तम् पृच्छति क ...{Loading}...

तं पृच्छति क ऋत्विजः के याजयन्ति कच्चिन्नाहीनः कच्चिन्न न्यस्तमार्त्विज्यं कच्चित्कल्याण्यो दक्षिणा इति छन्दोगब्राह्मणं भवति ३

04 अथ जपति महन्मेऽवोचो ...{Loading}...

अथ जपति महन्मेऽवोचो भर्गो मेऽवोचो यशो मे वोचः स्तोमं मेऽवोचः कॢप्तिं मेऽवोचो भुक्तिं मेऽवोचः सर्वं मेऽवोचस्तन्मावतु तन्माविशतु तेन भुक्षिषीयेति ४

05 यद्वा नामासि स्रुतिः ...{Loading}...

यद्वा नामासि स्रुतिः सोमसरणी सोमं गमेयमिति पन्थानमातिष्ठते ५

06 देवो देवमेतु सोमः ...{Loading}...

देवो देवमेतु सोमः सोममेत्वृतस्य एथा विहाय दौष्कृत्यमित्यभिप्रव्रजति ६

07 पितरो भूरिति दक्षिणावृत्तः ...{Loading}...

पितरो भूरिति दक्षिणावृत्तः पितॄनुपतिष्ठते ७

08 तान्वृणीते चतुरः सर्वान्वैकैकशः ...{Loading}...

तान्वृणीते चतुरः सर्वान्वैकैकशः ८

09 अध्वर्युम् प्रतिप्रस्थातारन् नेष्टारमुन्नेतारमित्यध्वर्यून् ...{Loading}...

अध्वर्युं प्रतिप्रस्थातारं नेष्टारमुन्नेतारमित्यध्वर्यून् । ब्रह्माणं ब्राह्मणाच्छंसिनमाग्नीध्रं पोतारमिति ब्रह्मणः । होतारं मैत्रावरुणमच्छावाकं ग्रावस्तुतमिति होतॄन् । उद्गातारं प्रस्तोतारं प्रतिहर्तारं सुब्रह्मण्यमित्युद्गातॄन् ९

10 सदस्यं सप्तदशङ् कौषीतकिनः ...{Loading}...

सदस्यं सप्तदशं कौषीतकिनः समामनन्ति १०

11 स कर्मणामुपद्रष्टा भवति ...{Loading}...

स कर्मणामुपद्रष्टा भवति ११

12 यदि चतुर आद्यान् ...{Loading}...

यदि चतुर आद्यान् १२

13 अथ वरणाः ...{Loading}...

अथ वरणाः १३

14 अग्निर्मे होतादित्यो मेऽध्वर्युश्चन्द्रमा ...{Loading}...

अग्निर्मे होतादित्यो मेऽध्वर्युश्चन्द्रमा मे ब्रह्मा पर्जन्यो म उद्गाताकाशो मे सदस्य आपो मे होत्राशंसिनो रश्मयो मे चमसाध्वर्यव इत्युपांशु देवतादेशनम् । असौ मानुष इत्युच्चैः १४

इति प्रथमा कण्डिका


  1. For this qualification cf ŚB III.1.1.5. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Not known. ↩︎