२०

01 यदि यूपः सुषिरः ...{Loading}...

यदि यूपः सुषिरः स्यादतीसारेण यजमानो म्रियेत । वैष्णव्या व्याहृतिभिः प्राजापत्यया च हुत्वा तं संवृश्च्याग्नौ प्रवृज्याथान्यं साधयेत् १

02 यदि क्रिम्णः क्रिमय ...{Loading}...

यदि क्रिम्णः क्रिमय एनं भक्षयेयुः । पूर्ववत्प्रायश्चित्तम् २

03 यद्याव्रश्चनमास्कन्देत्पत्न्येनमतिचरिष्यतीति विद्यात् व्याहृत्यादि ...{Loading}...

यद्याव्रश्चनमास्कन्देत्पत्न्येनमतिचरिष्यतीति विद्यात् । व्याहृत्यादि समानमुत्तरम् ३

04 यदि दक्षिणा पतेत्प्रत्यङ्वा ...{Loading}...

यदि दक्षिणा पतेत्प्रत्यङ्वा सं वा शीर्येत शाखासु वा सज्येत यजमानो म्रियेत । वैष्णव्याः स्थाने यामी । समानमुत्तरम् ४

05 यद्यप्सु पतेदप्सु म्रियेत ...{Loading}...

यद्यप्सु पतेदप्सु म्रियेत । वैष्णव्याः स्थाने वारुणी । समानमुत्तरम् ५

06 यदि प्रासहा हरेयुः ...{Loading}...

यदि प्रासहा हरेयुः सर्वस्वं जीयेत । वैष्णव्याः स्थान ऐन्द्री । समानमुत्तरम् ६

07 यदि मूल उपशुष्कः ...{Loading}...

यदि मूल उपशुष्कः स्यान्न पितृभ्यो यथापुरं करिष्यतीति विद्यात् । यदि मध्ये क्षुधा मरिष्यति । यद्यग्रे न स्वर्गं लोकं गमिष्यतीति । यद्यग्निष्ठा विच्छिद्येत यजमानो म्रियेत । यदि पूर्वा पत्नी । एतद्वा विपरीतम् । यदि दक्षिणा माहिषेयः पुत्रः । यद्युत्तरान्वग्ज्येष्ठः । यदि दक्षिणपूर्वा ब्रह्मा । यदि दक्षिणापरा होता । यद्युत्तरापराध्वर्युः । यद्युत्तरपूर्वाग्नीध्रः ७

08 शुष्कादिषु सर्वेषु याम्यादि ...{Loading}...

शुष्कादिषु सर्वेषु याम्यादि समानमुत्तरम् ८

09 यदि लोहिन्यो लेखाः ...{Loading}...

यदि लोहिन्यो लेखाः प्रसव्यं यूपं परिहरेयुर्न साहस्रं क्रतुमाहरिष्यतीति विद्यात् । श्वेताश्चेत्प्रदक्षिणं क्षिप्रं साहस्रं क्रतुमाहरिष्यतीति ९

10 यद्याहुतौ हुतायाङ् कृष्णो ...{Loading}...

यद्याहुतौ हुतायां कृष्णो धूमो दक्षिणां दिशमभिनिहन्याद्वातो वा प्रसव्यं धूममावेष्टयेद्यजमानो म्रियेत । सर्वप्रायश्चित्तं जुहुयाज्जुहुयात् १०

इति विंशी कण्डिका इति पञ्चमः पटलः इति नवमः प्रश्नः


  1. viz. idaṁ viṣṇur vi cakrame… TS 1.2.13.e. ↩︎ ↩︎ ↩︎

  2. viz. prajāpate na tvad etāni… TS 1.8.14.m. ↩︎