१९

01 कोशेऽवधाय द्वितीयेऽवधाय तृतीयेऽवदधाति ...{Loading}...

कोशेऽवधाय द्वितीयेऽवधाय तृतीयेऽवदधाति १

02 विबिलानिव कोशान्कृत्वाथैनामध्वर्युरभिमन्त्रयते यस्यास्ते ...{Loading}...

विबिलानिव कोशान्कृत्वाथैनामध्वर्युरभिमन्त्रयते यस्यास्ते हरितो गर्भ इति २

03 आ वर्तन वर्तयेति ...{Loading}...

आ वर्तन वर्तयेति प्रदक्षिणं गर्भमावृत्य वि ते भिनद्मि तकरीमित्युल्बमाछ्यति ३

04 बहिस्ते अस्तु बालित्यन्तरा ...{Loading}...

बहिस्ते अस्तु बालित्यन्तरा सक्थिनी गर्भं निरस्य शूले प्रणीक्ष्य शामित्रे निहत्य श्रपयति ४

05 उरुद्रप्सो विश्वरूप इन्दुरिति ...{Loading}...

उरुद्रप्सो विश्वरूप इन्दुरिति गर्भरसाय पात्रमुपोहति ५

06 पशुपुरोडाशन् निरुप्य गर्भपुरोडाशन् ...{Loading}...

पशुपुरोडाशं निरुप्य गर्भपुरोडाशं निर्वपति भक्तीद्यावापृथिव्यमेककपालम् ६

07 पशुपुरोडाशेन प्रचर्य गर्भपुरोडाशेन ...{Loading}...

पशुपुरोडाशेन प्रचर्य गर्भपुरोडाशेन प्रचरति भक्तीद्यावापृथिव्येनेति ७

08 पशोर्दैवतान्यवद्यन्गर्भस्य पुरस्तान्नाभ्या अन्यदवदाय ...{Loading}...

पशोर्दैवतान्यवद्यन्गर्भस्य पुरस्तान्नाभ्या अन्यदवदाय दैवतेष्ववदधाति । उपरिष्टादन्यत्सौविष्टकृतेषु ८

09 त्रैधङ् गर्भरसं व्यानयति ...{Loading}...

त्रैधं गर्भरसं व्यानयति दैवतसौविष्टकृतैडेषु च ९

10 एकपदी द्विपदीति पुरस्तात्स्विष्टकृतो ...{Loading}...

एकपदी द्विपदीति पुरस्तात्स्विष्टकृतो जुहोति १०

11 अष्टाप्रूड्ढिरण्यन् दक्षिणा ...{Loading}...

अष्टाप्रूड्ढिरण्यं दक्षिणा ११

12 गर्भस्य दक्षिणम् पूर्वपादम् ...{Loading}...

गर्भस्य दक्षिणं पूर्वपादं प्रच्छिद्य विष्णुं शिपिविष्टं यजति प्र तत्ते अद्य शिपिविष्ट नामेति । उत्तरया वा १२

13 मरुतो यस्य हि ...{Loading}...

मरुतो यस्य हि क्षय इति गर्भं गर्भपुरोडाशं चोत्तरेण गार्हपत्यस्य शामित्रस्य वा शीते भस्मन्युपोप्य मही द्यौः पृथिवी च न इति शीतेन भस्मनाभिसमूह्यैतं युवानमिति पञ्चभिरुपतिष्ठते १३

14 तदिदङ् गर्भिणिप्रायश्चित्तं सर्वत्र ...{Loading}...

तदिदं गर्भिणिप्रायश्चित्तं सर्वत्र क्रियेतेत्याश्मरथ्यः । यत्रानाम्नातं तत्र क्रियेतेत्यालेखनः १४

15 यद्यनपवृक्तार्थो यूपो विरोहेत्तस्मिंस्त्वाष्ट्रं ...{Loading}...

यद्यनपवृक्तार्थो यूपो विरोहेत्तस्मिंस्त्वाष्ट्रं साण्डं लोमशं पिङ्गलं बहुरूपं सवनीयस्योपालम्भ्यं कुर्यात् १५

16 त्वाष्ट्रञ् चरुमत्र वाजसनेयिनः ...{Loading}...

त्वाष्ट्रं चरुमत्र वाजसनेयिनः समामनन्ति १६

17 त्वाष्ट्रीरेवात्र स्रुवाहुतीर्जुहोतीत्येके ...{Loading}...

त्वाष्ट्रीरेवात्र स्रुवाहुतीर्जुहोतीत्येके १७

इत्येकोनविंशी कण्डिका


  1. Cf. KS XIII. 10. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS III.3.10.b. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. viz. kimit te viṣṇo… (TS II.2.12.t). ↩︎ ↩︎

  4. TS III.3.9.a-e; cf. KS XIII. 10. ↩︎