१८

01 उदुस्र तिष्ठ प्रतितिष्ठ ...{Loading}...

उदुस्र तिष्ठ प्रतितिष्ठ मा रिषो मेमं यज्ञं यजमानं च रीरिषः । सुवर्गे लोके यजमानं हि धेहि शं न एधि द्विपदे शं चतुष्पद इति १

02 उच्छागेति छागम् उन्मेषेति ...{Loading}...

उच्छागेति छागम् । उन्मेषेति मेषम् । उद्वश इति वशाम् २

03 यस्माद्भीषावेपिष्ठा इति द्वितीयां ...{Loading}...

यस्माद्भीषावेपिष्ठा इति द्वितीयां वेपमाने ३

04 यस्माद्भीषा पलायिष्ठा इति ...{Loading}...

यस्माद्भीषा पलायिष्ठा इति द्वितीयां पलायिते ४

05 अनागच्छत्यन्यन् तद्रूपवर्णवयसन् तद्दैवतमुपाकृत्य ...{Loading}...

अनागच्छत्यन्यं तद्रूपवर्णवयसं तद्दैवतमुपाकृत्य यजेत ५

06 यस्माद्भीषा समज्ञास्था इति ...{Loading}...

यस्माद्भीषा समज्ञास्था इति द्वितीयामकामसञ्ज्ञपने ६

07 य इदमकस्तस्मै नमस्तस्मै ...{Loading}...

य इदमकस्तस्मै नमस्तस्मै स्वाहेति सर्वत्र तृतीयाम् ७

08 न वा उवेतन्म्रियसे ...{Loading}...

न वा उवेतन्म्रियसे । आशानां त्वा विश्वा आशाः । आपो हि ष्ठा मयोभुव इत्येताभिश्चतसृभिरपोऽभ्यवहृत्यान्यं तद्रूपवर्णवयसं तद्दैवतमुपाकृत्य यजेत ८

09 यस्माद्भीषा निमेहसीति द्वितीयाम् ...{Loading}...

यस्माद्भीषा निमेहसीति द्वितीयां मूत्रं कुर्वति । यस्माद्भीषा शकृत्करोषीति द्वितीयां शकृत्कुर्वति ९

10 ऊर्ध्व ऊ षु ...{Loading}...

ऊर्ध्व ऊ षु ण ऊतय इत्युच्छ्रयन्तमभिमन्त्रयते १०

11 यद्युपपाय्यमानो न पिबेन्न ...{Loading}...

यद्युपपाय्यमानो न पिबेन्न वा उवेतन्म्रियस इत्युपपाययेत् ११

12 गर्भं स्रवन्तीमगदामकमाग्निर्होता पृथिव्यन्तरिक्षन् ...{Loading}...

गर्भं स्रवन्तीमगदामकमाग्निर्होता पृथिव्यन्तरिक्षं द्यौर्यतश्च्युतदग्नावेव तन्न तत्प्राप्नोति निरृतिं पराचैरिति पशूखां स्रवन्तीमभिमन्त्रयते १२

13 यर्हि पशुमाप्रीतमुदञ्चन् नयन्तीत्युक्तम् ...{Loading}...

यर्हि पशुमाप्रीतमुदञ्चं नयन्तीत्युक्तम् १३

14 ये पशुं विमथ्नीरन्यस्तान्कामयेतार्तिमार्छेयुरिति ...{Loading}...

ये पशुं विमथ्नीरन्यस्तान्कामयेतार्तिमार्छेयुरिति कुविदङ्गेति नमोवृक्तिवत्यर्चाग्नीध्रे जुहुयात् । आहवनीये शामित्रे वा निरूढपशुबन्धे १४

15 यदि वपा हविरवदानं ...{Loading}...

यदि वपा हविरवदानं वा स्कन्देदा त्वा ददे यशसे वीर्याय चास्मास्वघ्निया यूयं दधायेन्द्रियं पय इत्यादाय यस्ते द्रप्सो यस्त उदर्षो दैव्यः केतुर्विश्वं भुवनमाविवेश । स नः पाह्यरिष्ट्यै स्वाहेत्याहुतिं जुहुयात् १५

16 यद्यष्टापदीत्यनुबुध्येत धाता रातिः ...{Loading}...

यद्यष्टापदीत्यनुबुध्येत धाता रातिः सूर्यो देवो दिविषद्भ्य इत्याहुती हुत्वाष्टाप्रूड्ढिरण्यमुष्णीषेणावेष्ट्य १६

इत्यष्टादशी कण्डिका


  1. TB III.7.8.2. This formula is used, if the victim is a bull. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TB III.7.5.8. ↩︎ ↩︎ ↩︎ ↩︎

  3. TB III.7.8.3. ↩︎ ↩︎

  4. TS IV.1.5.b. ↩︎