१७

01 स्कन्ना द्यौः स्कन्ना ...{Loading}...

स्कन्ना द्यौः स्कन्ना पृथिवी स्कन्नं विश्वमिदं जगत् । स्कन्नादो विश्वा भूतानि प्र स्कन्नाज्जायतां हविः । इह गावः प्रजायध्वमिहाश्वा इह पूरुषाः । इहो सहस्रदक्षिणो रायस्पोषो निषीदतु । अयं यज्ञो वर्धतां गोभिरश्वैरियं वेदिः स्वपत्या सुवीरा । इदं बर्हिरति बर्हींष्यन्येमं यज्ञं विश्वे अवन्तु देवाः । पयस्वतीरोषधय इत्येताभिश्चतसृभिः पृषदाज्यं स्कन्नमभिमन्त्र्यापोऽभ्यवहृत्य निर्णिज्य स्रुचं शतमानं हिरण्यं स्रुच्यवधायेदं विष्णुर्विचक्रम इत्यन्यत्पृषदाज्यं गृहीत्वाश्वेनावघ्राप्यायतने सादयेत् १

02 अथैकेषाम् पृषदाज्ये स्कन्ने ...{Loading}...

अथैकेषाम् । पृषदाज्ये स्कन्ने पृषदाज्युए पृषदाज्यमभिगृह्य मनो ज्योतिर्जुषतामित्याहुतिं जुहुयात् २

03 एवं सोमे स्कन्ने ...{Loading}...

एवं सोमे स्कन्ने सोमे सोममभिगृह्य जुहुयात् ३

04 यदपामृक्षच्छकुनिर्मुखेन निरृते तव ...{Loading}...

यदपामृक्षच्छकुनिर्मुखेन निरृते तव । अग्निष्टत्सर्वं शुन्धतु हव्यवाड् घृतसूदन इति कृष्णशकुन्यवमृष्टमभिमन्त्रयते । अभ्यवहरणादि पूर्ववत् । निर्लिख्यतेऽत्र पात्रम् ४

05 यदवालिक्षच्छ्वपान्मुखेन निरृते तव ...{Loading}...

यदवालिक्षच्छ्वपान्मुखेन निरृते तव । अग्निष्टत्सव शुन्धतु हव्यवाड् घृतसूदन इति श्वापदावमृष्टमभिमन्त्रयते । अभ्यवहरणादि पूर्ववत् । नात्र पात्रं प्रयुज्यते । अन्यस्मिन्गृह्णाति ५

06 यदि पशुरुपाकृतो वाश्येत ...{Loading}...

यदि पशुरुपाकृतो वाश्येत यदस्य पारे रजस इत्याहुतिं जुहुयात् । यस्माद्भीषावाशिष्ठास्ततो नो अभयं कृधि । प्रजाभ्यः सर्वाभ्यो मृड नमो रुद्राय मीढुष इति जुहुयादभि वा मन्त्रयेत ६

07 यद्यु वै निषीदेदेतयैव ...{Loading}...

यद्यु वै निषीदेदेतयैव यस्माद्भीषा न्यषद इति द्वितीयाम् ७

08 निषणे तम् मैत्रावरुणदण्डेनोत्थापयेत् ...{Loading}...

निषणे तं मैत्रावरुणदण्डेनोत्थापयेत् ८

इति सप्तदशी कण्डिका


  1. KS XXXV.2. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS I.2.13.e. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. For the ritual in this Sūtra cf. TS III.2.6.2-3. ↩︎ ↩︎ ↩︎ ↩︎