१६

01 यदि पुरा प्रयाजेभ्यो ...{Loading}...

यदि पुरा प्रयाजेभ्यो बहिःपरिध्याहुतिः स्कन्देदाग्नीध्रं ब्रूयादेतां सङ्कृष्य जुहुधीति । तां सोऽञ्जलिना जुहोति । तस्मै पूर्णपात्रो देयः १

02 यत्किञ्च यज्ञे मृन्मयम् ...{Loading}...

यत्किञ्च यज्ञे मृन्मयं भिद्येत तदपोऽभ्यवहरेद्भूमिर्भूमिमगादिति २

03 आहवनीये दारुमयाणि ...{Loading}...

आहवनीये दारुमयाणि ३

04 यद्यृक्तो यज्ञम् भ्रेष ...{Loading}...

यद्यृक्तो यज्ञं भ्रेष आगच्छेद्भूरिति गार्हपत्ये जुहुयात् । यदि यजुष्टो भुव इति दक्षिणाग्नौ । यदि सामतः सुवरित्याहवनीये ४

05 यदि सर्वतः सर्वा ...{Loading}...

यदि सर्वतः सर्वा जुहुयात् ५

06 तदिदं सर्वप्रायश्चित्तं सर्वत्र ...{Loading}...

तदिदं सर्वप्रायश्चित्तं सर्वत्र क्रियेतेत्याश्मरथ्यः । यत्रानाम्नातं तत्र क्रियेतेत्यालेखनः । सर्वत्र समभ्युच्चयः स्यादित्यपरम् ६

07 यद्येनं विहारे बहिर्वा ...{Loading}...

यद्येनं विहारे बहिर्वा भयं विन्देत्प्रजापतिर्विश्वकर्मा तस्य मनो देवं यज्ञेन राध्यासम् । अर्थेगा अस्य जहितोऽवसानपतेऽवसानं मे विन्देत्याहुतिं जुहुयात् ७

08 यस्य हविर्निरुप्तं स्कन्देच्छिन्दत्प्राणि ...{Loading}...

यस्य हविर्निरुप्तं स्कन्देच्छिन्दत्प्राणि दद्यात् । यद्युत्पूतं चित्रं देयम् । वरो देय इत्येकेषाम् ८

09 यस्य देवते अवदाने ...{Loading}...

यस्य देवते अवदाने हवींषि याज्यानुवाक्ये वा विपरिहरेयुर्यस्य वा देवतायै गृहीतमहुतं स्कन्देद्देवतान्तरये वा यदस्य गृहे पुष्कलं स्यात्तद्दद्यात् ९

10 त्वन् नो अग्ने ...{Loading}...

त्वं नो अग्ने स त्वं नो अग्न इति सर्वत्रान्तरये विपर्यासे चैते आहुती जुहोतीत्येके १०

11 यस्य पुरोडाश उद्वा ...{Loading}...

यस्य पुरोडाश उद्वा पतेत्सं वा विजेत तमुद्वास्य बर्हिषदं कृत्वा किमुत्पतसि किमुत्प्रोष्ठाः शान्तः शान्तेरिहागहि । अघोरो यज्ञियो भूत्वासीद सदनं स्वमासीद सदनं स्वम् । मा हिंसीर्देव प्रेषित आज्येन तेजसाज्यस्व मा नः किञ्चन रीरिषः । योगक्षेमस्य शान्त्या अस्मिन्नासीद बर्हिषीत्येताभ्यामभिमन्त्रयेताभि च घारयेत् ११

12 भूत्वा प्रभवति यजमानो ...{Loading}...

भूत्वा प्रभवति यजमानो यस्यैतां यज्ञे प्रायश्चित्तिं कुर्वन्ति १२

इति षोडशी कण्डिका इति चतुर्थः पटलः


  1. For this Sūtra cp. MS 1.4.13. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TB III.7.9.7. ↩︎ ↩︎