१५

01 यो ब्रह्मचारी स्त्रियमुपेयात्स …{Loading}…

यो ब्रह्मचारी स्त्रियमुपेयात्स गर्दभं पशुमालभेत १

02 भूमावकपालम् पुरोडाशं श्रपयेत् …{Loading}…

भूमावकपालं पुरोडाशं श्रपयेत् २

03 अप्स्ववदानैश्चरेयुः …{Loading}…

अप्स्ववदानैश्चरेयुः ३

04 रक्षोदेवत्यः स्यान्निरृतिदेवत्यो वा …{Loading}…

रक्षोदेवत्यः स्यान्निरृतिदेवत्यो वा ४

05 निरृतिम् पाकयज्ञेन यजेत …{Loading}…

निरृतिं पाकयज्ञेन यजेत ५

06 यस्य हविः क्षायति …{Loading}…

यस्य हविः क्षायति तं यज्ञं निरृतिर्गृह्णाति । तत्संस्थाप्यान्यद्धविस्तद्दैवतं निर्वपेत् ६

07 अथैकेषाम् यस्य पुरोडाशः …{Loading}…

अथैकेषाम् । यस्य पुरोडाशः क्षायति तं यज्ञं निरृतिर्गृह्णाति । यदुच्छिष्टं स्यात्तेन प्रचरेद्द्वेष्याय तां दक्षिणां हविरुच्छिष्टं च दद्यात् । तमेव निरृत्या ग्राहयतीति विज्ञायते ७

08 सर्वदाहे प्रायश्चित्तम् …{Loading}…

सर्वदाहे प्रायश्चित्तम् ८

09 यदि वावदानेभ्यो न …{Loading}…

यदि वावदानेभ्यो न प्रभवेत् ९

10 यद्यप्रत्तदैवतं हविर्व्यापद्येतान्यद्धविस्तद्दैवतन् निर्वपेत् …{Loading}…

यद्यप्रत्तदैवतं हविर्व्यापद्येतान्यद्धविस्तद्दैवतं निर्वपेत् १०

11 तत्र स्रुगादानप्रभृतयो मन्त्रा …{Loading}…

तत्र स्रुगादानप्रभृतयो मन्त्रा आवर्तेरन् ११

12 यावदन्ते वा व्यापद्येत …{Loading}…

यावदन्ते वा व्यापद्येत १२

13 यदि प्रत्तदैवतमाज्येन शेषं …{Loading}…

यदि प्रत्तदैवतमाज्येन शेषं संस्थापयेत् १३

14 यस्य सर्वाणि हवींषि …{Loading}…

यस्य सर्वाणि हवींषि नश्येयुर्दुष्येयुरपहरेयुर्वाज्येनैता देवताः प्रतिसङ्ख्याय यजेत १४

15 अथान्यामिष्टिमनुल्बणान् तन्वीत यज्ञो …{Loading}…

अथान्यामिष्टिमनुल्बणां तन्वीत । यज्ञो हि यज्ञस्य प्रायश्चित्तिः १५

16 अपो व्यापन्नं हविरभ्यवहरतीति …{Loading}…

अपो व्यापन्नं हविरभ्यवहरतीति विज्ञायते १६

17 यदार्याणामभोजनीयं स्यान्न तेन …{Loading}…

यदार्याणामभोजनीयं स्यान्न तेन यजेत १७

18 यस्य पुरोडाशो दुःशृतस्तद्धविर्यमदैवत्यं …{Loading}…

यस्य पुरोडाशो दुःशृतस्तद्धविर्यमदैवत्यं यममेव तद्गच्छतीति विज्ञायते । संस्थाप्य तदन्वाहार्यपचने चतुःशरावमोदनं पक्त्वा चतुरो ब्राह्मणान्भोजयेत् १८

19 तेषाम् भार्गवः प्राशितॄणामेकः …{Loading}…

तेषां भार्गवः प्राशितॄणामेकः स्यात् १९

20 योऽदक्षिणेन यज्ञेन यजेत …{Loading}…

योऽदक्षिणेन यज्ञेन यजेत स यज्ञः प्रक्षामोऽनायुः । उर्वरां दद्यात् २०

21 यद्यादिष्टान् दक्षिणामन्तरियादुर्वरा प्रतिष्ठिता …{Loading}…

यद्यादिष्टां दक्षिणामन्तरियादुर्वरा प्रतिष्ठिता देया । सा प्रायश्चित्तिः २१

22 यद्यभागान् देवतामावाहयेदाज्येनैनां यथोढां …{Loading}…

यद्यभागां देवतामावाहयेदाज्येनैनां यथोढां यजेत । पुरस्ताद्वा स्विष्टकृतः २२

23 यदि भागिनीन् नावाहयेद्यत्र …{Loading}…

यदि भागिनीं नावाहयेद्यत्र स्मरेत्तदुपोत्थाय मनसावाह्य यद्वो देवा अतिपादयानीत्याहुतिं जुहुयात् २३

इति पञ्चदशी कण्डिका


  1. For the Sūtras 1-5 cp. Kātyāśs 1.1.13-17; Pāraskaragr̥hyasūtra III. 12. Gautamadharmasūtra XXIII. 17 ff; Baudhāyanadharmasūtra II.130.35; ĀpastambaDharmasūtra 1.26.3-9. See also Indische Studien X.p. 102f. It should be, however, remembered that Apśs mentions the sacrifice of an ass for an Āhitāgni and not for a Vedic student (brahmacārī). A Brahmacārī cannot perform any ritual (either Śrauta or Gr̥hya) because he does not have any fire. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎