१४

01 यद्येककपालः स्कन्देत्परि वावर्तेत ...{Loading}...

यद्येककपालः स्कन्देत्परि वावर्तेत प्रजापतेर्वर्तनिमनुवर्तस्वानु वीरैरनुराध्याम गोभिः । अन्वश्वैरनु सर्वैरु पुष्टैरनु प्रजयान्विन्द्रियेण देवा नो यज्ञमृजुधा नयन्त्विति यथास्थानं कल्पयति १

02 तं यजमानोऽभिमन्त्रयते प्रति ...{Loading}...

तं यजमानोऽभिमन्त्रयते प्रति क्षत्रे प्रतितिष्ठामि राष्ट्रे प्रत्यश्वेषु प्रतितिष्ठामि गोषु । प्रति प्रजायां प्रतितिष्ठामि भव्ये । विश्वमन्याभिवावृधे तदन्यस्यामधिश्रितम् । दिवे च विश्वकर्मणे पृथिव्यै चाकरं नम इति । अथास्कान्द्यौः पृथिवीमित्याहुती जुहुयात् २

03 वैश्वानरन् द्वादशकपालन् निर्वपेद्यदि ...{Loading}...

वैश्वानरं द्वादशकपालं निर्वपेद्यदि पत्नीः संयाजयन्कपालमभिजुहुयात् ३

04 एतामेव निर्वपेद्यो दर्शपूर्णमासयाजीत्युक्तम् ...{Loading}...

एतामेव निर्वपेद्यो दर्शपूर्णमासयाजीत्युक्तम् ४

05 एतामेव निर्वपेद्यदकृत्वाग्रायणन् नवस्याश्नीयात् ...{Loading}...

एतामेव निर्वपेद्यदकृत्वाग्रायणं नवस्याश्नीयात् ५

06 आनीतो वा एष ...{Loading}...

आनीतो वा एष देवानां य आहिताग्निरदन्त्यस्य भागं प्रतिकॢप्तमद्यादार्तिमार्छेत् ६

07 मारुतन् त्रयोदशकपालन् निर्वपेद्यस्य ...{Loading}...

मारुतं त्रयोदशकपालं निर्वपेद्यस्य यमौ जायेयातां गावौ वा पुरुषौ वा ७

08 निर्वीर्यतां वै पुरुष ...{Loading}...

निर्वीर्यतां वै पुरुष आशास्ते । अपशुतां गौः ८

10 आग्नावैष्णवमेकादशकपालन् निर्वपेद्यमन्यस्याग्निषु याजयेयुर्यस्य ...{Loading}...

आग्नावैष्णवमेकादशकपालं निर्वपेद्यमन्यस्याग्निषु याजयेयुर्यस्य वाग्निष्वन्यो जयेत १०

11 रौद्रं वास्तुमयञ् चरुन् ...{Loading}...

रौद्रं वास्तुमयं चरुं निर्वपेद्यस्य रुद्रः पशूञ्छमायेत ११

12 एतयैवावृता निषादस्थपतिं याजयेत् ...{Loading}...

एतयैवावृता निषादस्थपतिं याजयेत् १२

13 सा हि तस्येष्टिः ...{Loading}...

सा हि तस्येष्टिः १३

14 कृष्णाजिनन् दक्षिणा कूटं ...{Loading}...

कृष्णाजिनं दक्षिणा कूटं वा कर्णो वा गर्दभो हरिणो वा हरिणपृणाका वा श्यामाकपात्रो वा शफको वेति विज्ञायते १४

इति चतुर्दशी कण्डिका


  1. According VI.30.1-2, this should not happen. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TB III.7.10.2-3. ↩︎ ↩︎ ↩︎ ↩︎

  3. Cp. AB VII.7. ↩︎