१३

01 यस्याज्यमनुत्पूतं स्कन्देच्छिन्दत्प्राणि दद्यात् ...{Loading}...

यस्याज्यमनुत्पूतं स्कन्देच्छिन्दत्प्राणि दद्यात् १

02 यद्युत्पूतञ् चित्रन् देयम् ...{Loading}...

यद्युत्पूतं चित्रं देयम् २

03 वरो देय इत्येकेषाम् ...{Loading}...

वरो देय इत्येकेषाम् ३

04 यदि स्रुग्गतं यदस्य ...{Loading}...

यदि स्रुग्गतं यदस्य गृहे पुष्कलं स्यात्तद्दद्यात् । सं त्वा सिञ्चामीति तत्संसिञ्चेदभि वा मन्त्रयेत ४

05 देवाञ् जनमगन्यज्ञ इत्येकेषामनन्तरमाज्याद्वदति ...{Loading}...

देवां जनमगन्यज्ञ इत्येकेषामनन्तरमाज्याद्वदति ५

06 यज्ञस्य त्वा प्रमयाभिमया ...{Loading}...

यज्ञस्य त्वा प्रमयाभिमया प्रतिमयोन्मया परिगृह्णामीति तत्परिगृह्य भूपतये स्वाहेति प्राञ्चं प्रादेशं मिमीते । भुवनपतये स्वाहेति दक्षिणम् । भूतानां पतये स्वाहेति प्रत्यञ्चम् । भूत्यै स्वाहेत्युदञ्चम् । भूर्भुवः सुवरित्यूर्ध्वम् ६

07 भूपतये स्वाहा भुवनपतये ...{Loading}...

भूपतये स्वाहा भुवनपतये स्वाहा भूतानां पतये स्वाहेति स्कन्नमनुमन्त्रयेतेति सर्वहविषामनवयवेन श्रूयते ७

08 यदि कपालम् भिद्येत ...{Loading}...

यदि कपालं भिद्येत गायत्र्या त्वा शताक्षरया सन्दधामीति तत्सन्धायोपरि गार्हपत्ये धार्यमाणमभिजुहुयान्मनो ज्योतिर्जुषतामिति ८

09 अथैनदपोऽभ्यवहरेदभिन्नो घर्मो जीरदानुरिति ...{Loading}...

अथैनदपोऽभ्यवहरेदभिन्नो घर्मो जीरदानुरिति ९

10 अथान्यत्संस्कृत्य कपालेष्वपिसृजेत्त्रयस्त्रंशत्तन्तव इति ...{Loading}...

अथान्यत्संस्कृत्य कपालेष्वपिसृजेत्त्रयस्त्रंशत्तन्तव इति यदि प्रागुपघानाद्भिद्येत १०

11 अथ यद्युपहितानामेतेनैव मन्त्रेणान्यदुपदध्यात् ...{Loading}...

अथ यद्युपहितानामेतेनैव मन्त्रेणान्यदुपदध्यात् ११

12 यस्य वा मन्त्रस्य ...{Loading}...

यस्य वा मन्त्रस्य स्थाने भिद्येत १२

13 यदि प्रयुक्तानाम् प्रागर्थकर्मणः ...{Loading}...

यदि प्रयुक्तानां प्रागर्थकर्मणः कपालं नश्येदाश्विनं द्विकपालं निर्वपेद्द्यावापृथिव्यमेककपालम् १३

14 भार्गवो होता भवति ...{Loading}...

भार्गवो होता भवति । एकहायनो दक्षिणा १४

15 मही द्यौः पृथिवी ...{Loading}...

मही द्यौः पृथिवी च न इति द्यावापृथिव्ययर्चा स्रुवाहुतिमत्र वाजसनेयिनः समामनन्ति १५

इति त्रयोदशी कण्डिका


  1. For the purification of ghee see II.6.7. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. In MS 1.4.4 and KS IV.6 these formulae are mentioned before the formulae to be used for scooping the ghee. MS 1.4.9 and KS XXX.6 prescribe these formulae for being used in connection with spilling out of the ghee. ↩︎ ↩︎ ↩︎ ↩︎