१२

01 यदि हविःशेषाननुद्वासिताननूयाजैरभ्याश्रावयेद्यद्वो देवा ...{Loading}...

यदि हविःशेषाननुद्वासिताननूयाजैरभ्याश्रावयेद्यद्वो देवा अतिपादयानीत्याहुतिं जुहुयात् १

02 यदि प्रणीता स्कन्देयुरुपदस्येयुर्वापो ...{Loading}...

यदि प्रणीता स्कन्देयुरुपदस्येयुर्वापो हि ष्ठा मयोभुव इति तिसृभिः पुनर्गृहीत्वा ततं म आप इत्याहुतिं जुहुयात् २

03 यद्यग्न्याधेये सूर्यो ऽनाविः ...{Loading}...

यद्यग्न्याधेये सूर्यो ऽनाविः स्यादुद्वयं तमसस्पर्युदु त्यं चित्रमित्याहुतीर्जुहुयात् ३

04 यद्येनमुपधावेयुर्गोमायवोऽवादिषु रेकसृकोऽवादी दभिमृताः ...{Loading}...

यद्येनमुपधावेयुर्गोमायवोऽवादिषु रेकसृकोऽवादी दभिमृताः स्मः परिधिं नः कुर्विति पालाशमिध्ममुपसमाधायेमं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्ने त्वमग्ने अयासि प्रजापत इति षडाहुतीर्हुत्वेमं जीवेभ्यः परिधिं दधामि मैषां नु गादपरो अर्धमेतम् । शतं जीवन्तु शरदः पुरूचीस्तिरो मृत्युं दधतां पर्वतेनेति दक्षिणतोऽश्मानं परिधिं दधाति ४

05 नैय्यग्रोध इध्मः क्षत्रियस्य ...{Loading}...

नैय्यग्रोध इध्मः क्षत्रियस्य राष्ट्रमर्यादायाम् ५

06 आश्वत्थो वैश्यस्य क्षत्रमर्यादायाम् ...{Loading}...

आश्वत्थो वैश्यस्य क्षत्रमर्यादायाम् ६

07 इष्टेभ्यः स्वाहेत्यष्टावाहुतीर्दार्शपूर्णमासिकैः सर्वप्रायश्चित्तैर्विकल्पेरन् ...{Loading}...

इष्टेभ्यः स्वाहेत्यष्टावाहुतीर्दार्शपूर्णमासिकैः सर्वप्रायश्चित्तैर्विकल्पेरन् ७

08 यदि दौःष्वप्न्यमन्यद्वा भयम् ...{Loading}...

यदि दौःष्वप्न्यमन्यद्वा भयं पश्येद्यत इन्द्र भयामह इत्याहुती जुहुयात् । जपेदित्येके ८

09 सर्वेषां वै घर्मो ...{Loading}...

सर्वेषां वै घर्मो रुचां रोचते । तस्मात्प्रवर्ग्येण प्रचय प्रवृज्यमानस्य वोपश्रुत्याभिर्गीर्भिरिति जुहुयात् । जपेदित्येके ९

10 यदि होमायोपसमिद्धेष्वहुतेष्वग्निषु यजमानोऽश्नीयाद्यत्ते ...{Loading}...

यदि होमायोपसमिद्धेष्वहुतेष्वग्निषु यजमानोऽश्नीयाद्यत्ते वयं यथा ह तदित्याहुती जुहुयात् । समिधौ वादध्यात् । जपेदित्येके १०

11 यन्म आत्मनो मिन्दाभूत्पुनरग्निश्चक्षुरदादित्येताभ्यामभिनिम्रुक्ताभ्युदितपर्याहितपरीष्टपरिवित्तपरिविन्नपरिविविदानो ...{Loading}...

यन्म आत्मनो मिन्दाभूत्पुनरग्निश्चक्षुरदादित्येताभ्यामभिनिम्रुक्ताभ्युदितपर्याहितपरीष्टपरिवित्तपरिविन्नपरिविविदानो वा जुहुयात् । जपेदित्येके ११

12 अनाज्ञातमिति तिस्रोऽनाज्ञाते जुहुयात् ...{Loading}...

अनाज्ञातमिति तिस्रोऽनाज्ञाते जुहुयात् । जपेदित्येके १२

इति द्वादशी कण्डिका इति तृतीयः पटलः


  1. See III.4.5. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See II.5.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. TB III.7.11.2. ↩︎ ↩︎ ↩︎