११

01 स्तोत्रे शस्त्रे वा ...{Loading}...

स्तोत्रे शस्त्रे वा मूढे १

02 यस्य वाग्निभिरग्नीन्व्यवेयुर्यो वा ...{Loading}...

यस्य वाग्निभिरग्नीन्व्यवेयुर्यो वा व्यवेयात् २

03 यस्य वाग्निभिरग्नीन्विहरेयुः ...{Loading}...

यस्य वाग्निभिरग्नीन्विहरेयुः ३

04 एताञ् जने प्रमीतस्य ...{Loading}...

एतां जने प्रमीतस्य ४

05 तस्याभिवान्यवत्सायै पयसाग्निहोत्रञ् जुहुयादा ...{Loading}...

तस्याभिवान्यवत्सायै पयसाग्निहोत्रं जुहुयादा शरीरस्याग्निभिः संस्पर्शनात् ५

06 सर्वन् तूष्णीङ् क्रियेत ...{Loading}...

सर्वं तूष्णीं क्रियेत ६

07 पाचीनावीती दोहयति ...{Loading}...

पाचीनावीती दोहयति ७

08 ये पुरोदञ्चो दर्भास्तान्दक्षिणाग्रान्कृत्वा ...{Loading}...

ये पुरोदञ्चो दर्भास्तान्दक्षिणाग्रान्कृत्वा दक्षिणार्धे गार्हपत्यस्य शीते भस्मन्यधिश्रित्य दक्षिणोद्वास्य सकृदेव सर्वं तूष्णीमुन्नीयाधस्तात्समिधं धारयन्दक्षिणेन विहारमुद्द्रवति ८

09 उपरि हि देवेभ्यो ...{Loading}...

उपरि हि देवेभ्यो धारयतीति विज्ञायते ९

10 स उपसाद्य समिधमाधाय ...{Loading}...

स उपसाद्य समिधमाधाय सकृदेव सर्वं तूष्णीं जुहुयात् १०

11 अपि वा सोमम् ...{Loading}...

अपि वा सोमं पितृमन्तं पूर्वस्यामाहुत्यामुपलक्षयेत् । अग्निं कव्यवाहनमुत्तरस्याम् ११

12 प्राश्नोत्सेचनपरिषेचनानि न विद्यन्ते ...{Loading}...

प्राश्नोत्सेचनपरिषेचनानि न विद्यन्ते १२

13 ब्राह्मणेभ्यो यज्ञायुधानि ददाति ...{Loading}...

ब्राह्मणेभ्यो यज्ञायुधानि ददाति १३

14 ददात्येवायस्मयानि ...{Loading}...

ददात्येवायस्मयानि १४

15 अपो मृन्मयान्यभ्यवहरन्त्यमैव ...{Loading}...

अपो मृन्मयान्यभ्यवहरन्त्यमैव १५

16 पुत्रस्य दृषत्स्यात् ...{Loading}...

पुत्रस्य दृषत्स्यात् १६

17 यद्यप्रमीतम् प्रमीतमुपशृणुयुरग्नये सुरभिमते ...{Loading}...

यद्यप्रमीतं प्रमीतमुपशृणुयुरग्नये सुरभिमते पुरोडाशमष्टाकपालं निर्वपेत् १७

18 यदि पूर्वस्यामाहुत्यां हुतायां ...{Loading}...

यदि पूर्वस्यामाहुत्यां हुतायां यजमानो म्रियेत दक्षिणतः शीते भस्मन्युत्तरामाहुतिं निनयेत् १८

19 भस्मोत्करं वा गमयेत् ...{Loading}...

भस्मोत्करं वा गमयेत् १९

20 यैषा पितृमेधे प्रथमाहुतिस्तामेवात्र ...{Loading}...

यैषा पितृमेधे प्रथमाहुतिस्तामेवात्र कुर्यादित्येके २०

21 यदि विसंस्थितायामिष्ट्यां यजमानो ...{Loading}...

यदि विसंस्थितायामिष्ट्यां यजमानो म्रियेत सर्वतः समवदाय सर्वा देवता अनुद्रुत्य स्वाहाकारेण जुहुयात् २१

22 यद्याहिताग्निः प्रोषितः प्रमीतो ...{Loading}...

यद्याहिताग्निः प्रोषितः प्रमीतो न प्रज्ञायेत यां दिशमभिप्रस्थितः स्यात्तामस्याग्निभिः कक्षं दहेयुः २२

23 अपि वा त्रीणि ...{Loading}...

अपि वा त्रीणि षष्टिशतानि पलाशवृन्तानाम् तैः कृष्णाजिने पुरुषाकृतिं कुर्वन्ति । पलाशवल्कैः कुशैर्वा सन्धिषु संवेष्ट्य चत्वारिंशता शिरः प्रकल्पयते । दशभिर्ग्रीवां विंशत्योरस्त्रिंशतोदरं पञ्चाशतापञ्चाशतैकैकं बाहुम् । ताभ्यामेव पञ्चभिःपञ्चभिरङ्गुलीरुपकल्पयते । सप्तत्यासप्तत्यैकैकं पादम् । ताभ्यामेव पञ्चभिः पञ्चभिरङ्गुलीरुपकल्ल्पयते । अष्टाभिः शिश्नं द्वादशभिर्वृषणम् । तैः कृष्णाजिने पुरुषाकृतिं कृत्वा स्नापयित्वालङ्कृत्यान्तर्वेदि कृष्णाजिनं दक्षिणाग्रीवमधरलोमास्तीर्य तस्मिन्नेनमुत्तानं निपात्य पत्तोदशेनाहतेन वाससा प्रच्छाद्य बान्धवाः पर्युपविशन्ति । अभिमृशन्त्ययमस्यासौ यस्य त इमे अग्नय इति प्रेतेऽमात्याः । इत्येतदादि कर्म प्रतिपद्यते । कृत्वा तामस्याग्निभिर्दहेयुरिति वाजसनेयकम् २३

24 यदि हवींष्यासन्नानि कृष्णशकुनिरुपर्युपर्यतिपतेत्पक्षाभ्यामाधून्वान ...{Loading}...

यदि हवींष्यासन्नानि कृष्णशकुनिरुपर्युपर्यतिपतेत्पक्षाभ्यामाधून्वान इवाभिनिषीदेद्वेदं विष्णुर्विचक्रम इत्याहुतिं जुहुयात् २४

25 यद्य्च्चैः पतेन्न तदाद्रियेत ...{Loading}...

यद्य्च्चैः पतेन्न तदाद्रियेत २५

26 यद्युच्छ्रियमाणो यूपश्चषालं वा ...{Loading}...

यद्युच्छ्रियमाणो यूपश्चषालं वा पद्येत ब्रह्म प्रतिष्ठा मनस इत्याहुतिं जुहुयात् २६

इत्येकादशी कण्डिका


  1. For this Sūtra cf. AB VII.4; ŚB XII.5.1.4. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf.. ŚB XII.5.1.12. ↩︎ ↩︎ ↩︎

  3. Contrast the normal practice:-VI.5.6-7. ↩︎ ↩︎

  4. Contrast VI.8.5. ↩︎

  5. Contrast VI.7.1; 6. ↩︎

  6. Contrast VI.8.5. ↩︎