१०

01 यदि प्राग्घोमकालादाहवनीयोऽनुगच्छेद्गार्हपत्यादन्यम् प्रणयेत् ...{Loading}...

यदि प्राग्घोमकालादाहवनीयोऽनुगच्छेद्गार्हपत्यादन्यं प्रणयेत् १

02 यदि होमकाले प्राण ...{Loading}...

यदि होमकाले प्राण उदानमप्यगादिति गार्हपत्ये जुहुयात् २

03 यदि गार्हपत्य उदानः ...{Loading}...

यदि गार्हपत्य उदानः प्राणमप्यगादित्याहवनीये ३

04 यदि दक्षिणाग्निर्व्यान उदानमप्यगादिति ...{Loading}...

यदि दक्षिणाग्निर्व्यान उदानमप्यगादिति गार्हपत्ये ४

05 यदि सर्वेऽनुगच्छेयुरग्निम् मथित्वा ...{Loading}...

यदि सर्वेऽनुगच्छेयुरग्निं मथित्वा यां दिशं वातो वायात्तां दिशमुद्धृत्य वायवे स्वाहेति जुहुयात् ५

06 यद्यु वै निवाते ...{Loading}...

यद्यु वै निवाते मथित्वा विहारं साधयित्वापरेणाहवनीयं यजमान उपविश्य स्वयमग्निहोत्रं पिबेत् । अग्निहोत्रप्रत्याम्नायो भवतीति विज्ञायते ६

07 यदि प्रागस्तमयाज्जुहुयात्पुनरेवास्तमिते हुत्वा ...{Loading}...

यदि प्रागस्तमयाज्जुहुयात्पुनरेवास्तमिते हुत्वा भवतं नः समनसावित्युपतिष्ठेत ७

08 यदि महारात्रे पुनरेवौषसं ...{Loading}...

यदि महारात्रे पुनरेवौषसं हुत्वैतयैवोपतिष्ठेत ८

09 यदि हविः प्रोक्षन्नग्निमभिप्रोक्षेद्धतेन ...{Loading}...

यदि हविः प्रोक्षन्नग्निमभिप्रोक्षेद्धतेन यज्ञेन यजेत । पुनस्त्वादित्या रुद्रा वसवः समिन्धतामिति पुनरग्निमुपसमिन्ध्यात् ९

10 एवं सर्वेष्वग्न्युपघातेषु ...{Loading}...

एवं सर्वेष्वग्न्युपघातेषु १०

11 अग्नयेऽग्निवते पुरोडाशमष्टाकपालन् निर्वपेद्यस्याग्नावग्निमभ्युद्धरेयुः ...{Loading}...

अग्नयेऽग्निवते पुरोडाशमष्टाकपालं निर्वपेद्यस्याग्नावग्निमभ्युद्धरेयुः ११

12 यथा कथा चाभ्युद्धरेयुः ...{Loading}...

यथा कथा चाभ्युद्धरेयुः प्रायश्चित्तमित्याश्मरथ्यः । यद्यसन्न्युप्ते स्पाशयेयुरनुगमयेयुरेनं न प्रायश्चित्तमित्यालेखनः १२

13 अग्नये ज्योतिष्मतेऽष्टाकपालमित्युक्तम् ...{Loading}...

अग्नये ज्योतिष्मतेऽष्टाकपालमित्युक्तम् १३

14 अथाहुतिञ् जुहुयात्त्रयस्त्रिंशत्तन्तव इति ...{Loading}...

अथाहुतिं जुहुयात्त्रयस्त्रिंशत्तन्तव इति १४

15 यस्य सान्नाय्येऽधिश्रिते हविषि ...{Loading}...

यस्य सान्नाय्येऽधिश्रिते हविषि वा निरुप्ते पुरुषः श्वानो रथो वान्तराग्नी वीयाद्दुर्वराहैडको वा तदत्रापोऽन्वतिषिच्य गामन्वत्यावर्तयेद्वर्धतां भूतिर्दध्ना घृतेन मुञ्चतु यज्ञो यज्ञपतिमंहसः स्वाहेति १५

16 देवाञ्जनमगन्यज्ञस्ततो मा यज्ञस्याशीरागच्छतु ...{Loading}...

देवाञ्जनमगन्यज्ञस्ततो मा यज्ञस्याशीरागच्छतु पितॄन्पञ्चजनान्दिश आप ओषधीर्वनस्पतीञ्जनमगन्यज्ञस्ततो मा यज्ञस्याशीरागच्छत्विति षडाहुतीर्हुत्वेदं विष्णुर्विचक्रम इति वर्त्म समूहेत् । पदं वा लोभयेत् १६

17 यस्यानो वा रथो ...{Loading}...

यस्यानो वा रथो वान्तराग्नी यात्याहवनीयमुद्वाप्य गार्हपत्यादुद्धरेद्यदग्ने पूर्वं प्रभृतं पदं हि ते सूर्यस्यरश्मीनन्वाततान । तत्र रयिष्ठामनुसम्भरैतं सं नः सृज सुमत्या वाजवत्या । त्वमग्ने सप्रथा असीत्येताभ्याम् । ततः पाथिकृतीं पूर्ववन्निर्वपेत् १७

18 एतामेव निर्वपेत् ...{Loading}...

एतामेव निर्वपेत् १८

इति दशमी कण्डिका


  1. For Sūtras I-6 cf. ŚB XI.5.3.8-12. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Not identified. ↩︎ ↩︎ ↩︎ ↩︎

  3. TS IV.2.3.n. ↩︎ ↩︎