०९

01 यस्याहवनीयेऽनुद्वाते गार्हपत्य उद्वायेदाहवनीयमुद्वाप्य ...{Loading}...

यस्याहवनीयेऽनुद्वाते गार्हपत्य उद्वायेदाहवनीयमुद्वाप्य गार्हपत्यं मन्थेदितः प्रथमं जज्ञे अग्निरित्येतया । अग्ने सम्राडिषे रय्यै रमस्व सहसे द्युम्नायोर्जपत्यायेत्यभिमन्त्र्य सम्राडसि विराडसि सारस्वतौ त्वोत्सौ समिन्धातामन्नादं त्वान्नपत्यायेत्युपसमिध्यान्वग्निरुषसामग्रमख्यदित्यन्यं प्रणीयाग्नये तपस्वते जनद्वते पावकवतेऽष्टाकपालं निर्वपेत् १

02 सर्वत्रानुगतेष्टिमेतामेके समामनन्ति ...{Loading}...

सर्वत्रानुगतेष्टिमेतामेके समामनन्ति २

03 आयाहि तपसा जनेष्वग्ने ...{Loading}...

आयाहि तपसा जनेष्वग्ने पावको अर्चिषा । उपेमां सुष्टुतिं मम । आ नो याहि तपसा जनेष्वग्ने पावक दीद्यत् । हव्या देवेषु नो दधदिति याज्यानुवाक्ये ३

04 आहवनीयेऽनुगतेऽग्नये ज्योतिष्मतेऽष्टाकपालन् निर्वपति ...{Loading}...

आहवनीयेऽनुगतेऽग्नये ज्योतिष्मतेऽष्टाकपालं निर्वपति ४

05 न तपस्वते ...{Loading}...

न तपस्वते ५

06 यदि सायमहुतेऽग्निहोत्रे पूर्वोऽग्निरनुगच्छेदधिश्रित्याग्निहोत्रमुन्नीय ...{Loading}...

यदि सायमहुतेऽग्निहोत्रे पूर्वोऽग्निरनुगच्छेदधिश्रित्याग्निहोत्रमुन्नीय वाग्निना च सहाग्निहोत्रेण चानूद्द्रवेत् । यो ब्राह्मणो बहुवित्स उद्धरेत् । यत्पुरा धनमदायी स्यात्तद्दद्यात् । अच्युतेनैनं च्यावयतीति विज्ञायते ६

07 यदि प्रातरहुतेऽग्निहोत्रेऽपरोऽग्निरनुगच्छेदनुगमयित्वा पूर्वम् ...{Loading}...

यदि प्रातरहुतेऽग्निहोत्रेऽपरोऽग्निरनुगच्छेदनुगमयित्वा पूर्वं पूर्ववन्मथित्वापरं पूर्ववदुद्धृत्य जुहुयात् ७

08 यदि त्वरेत पूर्वमन्ववसाय ...{Loading}...

यदि त्वरेत पूर्वमन्ववसाय ततः प्राङुद्धृत्य जुहुयात् ८

09 जामि तु तद्योऽस्य ...{Loading}...

जामि तु तद्योऽस्य पुर्वस्तमपरं करोति । अन्यत्रैवावसाय पुर्ववन्मथित्वापरं पूर्ववदुद्धृत्य जुहुयात् । ततः श्वोभूतेऽग्नये तपस्वते जनद्वत इति समानम् ९

10 अथैकेषाम् यस्याग्निरनुगच्छेन्न कालमवधारयेत् ...{Loading}...

अथैकेषाम् । यस्याग्निरनुगच्छेन्न कालमवधारयेत् । अनुगमयित्वा पूर्वं पूर्ववन्मथित्वापरं पूर्ववदुद्धृत्य जुहुयात् । वैश्वानरं द्वादशकपालं निर्वपेद्वारुणं यवमयं चरुम् १०

11 यदि गार्हपत्य आहवनीयो ...{Loading}...

यदि गार्हपत्य आहवनीयो वानुगच्छेत्तेभ्य एवावक्षाणेभ्योऽधि मन्थितव्यः । यदि नतादृशानीवावक्षाणानि स्युर्भस्मनारणी संस्पर्श्य मन्थितव्यः । स्वादेवैनं योनेर्जनयतीति विज्ञायते ११

12 एवं शकैधे तृणैधे ...{Loading}...

एवं शकैधे तृणैधे च १२

13 अग्नये तपस्वते जनद्वत ...{Loading}...

अग्नये तपस्वते जनद्वत इति समानम् १३

14 अनुगतेष्टेर्वा स्थान एता ...{Loading}...

अनुगतेष्टेर्वा स्थान एता आहुतीर्जुहुयान्मित्राय स्वाहा वरुणाय स्वाहाग्नये स्वाहाग्नये व्रतपतये स्वाहाग्नये तपस्वते जनद्वते पावकवते स्वाहाग्नये शुचये स्वाहाग्नये ज्योतिष्मते स्वाहा सूर्याय स्वाहेति व्याहृतीभिर्विहृताभिः समस्ताभिश्च जुहुयात् १४

इति नवमी कण्डिका


  1. TS II.2.4.8. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS IV.1.2.k. ↩︎ ↩︎

  3. TB I.4.4.6-10. ↩︎