०८

01 मनो ज्योतिर्जुषतान् त्रयस्त्रिंशत्तन्तव ...{Loading}...

मनो ज्योतिर्जुषतां त्रयस्त्रिंशत्तन्तव इति द्वे चतुर्गृहीते जुहुयात् १

02 यस्य विप्रक्रान्तमहुतमग्निहोत्रं सूर्योऽभ्युदियाद्यथा ...{Loading}...

यस्य विप्रक्रान्तमहुतमग्निहोत्रं सूर्योऽभ्युदियाद्यथा विजनिष्यमाणो न विजायेत तादृक्तत् । आत्मानं वा ह यजमानो रुणद्धि सर्वज्यानिं वा जीयते । नित्यमग्निहोत्रमुपसाद्या तमितोरप्राणन्नासित्वा समन्य हुत्वा भूर्भुवः सुवरित्युपतिष्ठेत । एकहायनो दक्षिणा २

03 हुत्वा तदुद्वास्य पुनराधेयन् ...{Loading}...

हुत्वा तदुद्वास्य पुनराधेयं तस्य प्रायश्चित्तिरित्याश्मरथ्यः ३

04 अथैकेषाम् यद्यन्ते स्यादुन्नीय ...{Loading}...

अथैकेषाम् । यद्यन्ते स्यादुन्नीय प्राङुदाद्रवेत् । स उपसाद्या तमितोरासीत । स यदा ताम्येदथ भूः स्वाहेति जुहुयात् । प्रजापतिर्वै भूतस्तमेवोपासरेत्स एवैनं तत उन्नयति नार्तिमार्छति यजमान इति विज्ञायते ४

05 यस्याग्निहोत्रं विच्छिद्येत द्व्यहे ...{Loading}...

यस्याग्निहोत्रं विच्छिद्येत द्व्यहे त्र्यहे चतुरहे वाग्नये तन्तुमते ऽष्टाकपालं निर्वपेत् ५

06 स्वयङ् कृण्वानं सुगमप्रयावन् ...{Loading}...

स्वयं कृण्वानं सुगमप्रयावं तिग्मशृङ्गो वृषभः शोशुचानः । प्रत्नं सधस्थमनुपश्यमान आ तन्तुमग्निर्दिव्यं ततान । त्वं नस्तन्तुरुत सेतुरग्ने त्वं पन्था भवसि देवयानः । त्वयाग्ने पृष्ठं वयमारुहेमाथा देवैः सधमादं मदेमेति याज्यानुवाक्ये ६

07 तन्तुन् तन्वन्नुद्बुध्यस्वाग्न उदुत्तममुद्वयन् ...{Loading}...

तन्तुं तन्वन्नुद्बुध्यस्वाग्न उदुत्तममुद्वयं तमसस्पर्युदु त्यं चित्रमित्युपहोमाः ७

08 हव्यवाहमभिमातिषाहं रक्षोहणम् पृतनासु ...{Loading}...

हव्यवाहमभिमातिषाहं रक्षोहणं पृतनासु जिष्णुम् । ज्योतिष्मन्तं दीद्यतं पुरन्धिमग्निं स्विष्टकृतमाहुवेम । स्विष्टमग्ने अभि तत्पृणाहि विश्वा देव पृतना अभिष्य । उरुं नः पन्थां प्रदिशन्विभाहि ज्योतिष्मद्धेह्यजरं न आयुरिति संयाज्ये ८

इत्यष्टमी कण्डिका इति द्वितीयः पटलः


  1. TS I.5.3-7. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS I.5.10.n. ↩︎ ↩︎ ↩︎

  3. TS I.5.11.k. ↩︎

  4. TB III.9.11.2. ↩︎

  5. TB III.7.11.2. ↩︎