०७

01 दर्भेण हिरण्यम् प्रबध्य ...{Loading}...

दर्भेण हिरण्यं प्रबध्य पुरस्ताद्धरेत् । अन्वङ्ङार्षेयो ब्राह्मणो बहुविदग्निमुद्धरेत् । अन्वङ्ङग्निहोत्रेणानूद्द्रवेत् । आयतने हिरण्येऽग्निं प्रतिष्ठाप्य नित्यमग्निहोत्रमुपसाद्या तमितोरप्राणन्नासित्वा समन्य हुत्वा भूर्भुवः सुवरित्युपस्थाय वारुणं चरुं निर्वपेत् १

02 व्रातभृतीन् द्वितीयामेके समामनन्ति ...{Loading}...

व्रातभृतीं द्वितीयामेके समामनन्ति । ऋते हिरण्यात्प्रणयनमेके २

03 यदि सायमग्निहोत्रकालोऽतिपद्येत दोषा ...{Loading}...

यदि सायमग्निहोत्रकालोऽतिपद्येत दोषा वस्तोर्नमः स्वाहेति कालसमापादनीयं होमं हुत्वा नित्यमग्निहोत्रमुपसाद्या तमितोरप्राणन्नासित्वा समन्य हुत्वा भूर्भुवः सुवरित्युपतिष्ठेत ३

04 यदि प्रातः प्रातर्वस्तोर्नमः ...{Loading}...

यदि प्रातः प्रातर्वस्तोर्नमः स्वाहेति कालसमापादनीयं होमं हुत्वा नित्यमग्निहोत्रमुपसाद्या तमितोरप्राणन्नासित्वा समन्य हुत्वा भूर्भुवः सुवरित्युपतिष्ठेत ४

05 वरो दक्षिणा ...{Loading}...

वरो दक्षिणा ५

06 हुत्वाहवनीयमुद्वाप्यान्वग्निरुषसामग्रमख्यदित्यन्यम् प्रणीयेहैव क्षेम्य ...{Loading}...

हुत्वाहवनीयमुद्वाप्यान्वग्निरुषसामग्रमख्यदित्यन्यं प्रणीयेहैव क्षेम्य एधि मा प्रहासीन्मामुमामुष्यायणमित्यादित्यमुपस्थाय मैत्रं चरुं निर्वपेत् ६

07 सौर्यमेककपालमेके समामनन्ति ...{Loading}...

सौर्यमेककपालमेके समामनन्ति ७

08 संस्थितायामिष्ट्यामाहवनीयमेवैतदहरिन्धानावनश्नन्तौ वाग्यतावासाते यजमानः ...{Loading}...

संस्थितायामिष्ट्यामाहवनीयमेवैतदहरिन्धानावनश्नन्तौ वाग्यतावासाते यजमानः पत्नी च ८

09 द्वयोः पयसा पूर्ववत्सायमग्निहोत्रञ् ...{Loading}...

द्वयोः पयसा पूर्ववत्सायमग्निहोत्रं जुहुयात् ९

10 यस्याग्निमनुद्धृतं सूर्योऽभ्युदियाच्चतुर्गृहीतमाज्यम् पुरस्ताद्धरेत् ...{Loading}...

यस्याग्निमनुद्धृतं सूर्योऽभ्युदियाच्चतुर्गृहीतमाज्यं पुरस्ताद्धरेत् । अन्वङ्ङार्षेयो ब्राह्मणो बहुविदग्निमुद्धरेत् । अन्वङ्ङग्निहोत्रेणानूद्द्रवेत् । आयतनेऽग्निं प्रतिष्ठाप्योषाः केतुना जुषतां यज्ञं देवेभिरन्वितम् । देवेभ्यो मधुमत्तमं स्वाहेति प्रत्यङ्गिषद्याज्येन जुहुयात् १०

11 अग्निहोत्रस्य स एव ...{Loading}...

अग्निहोत्रस्य स एव होमकल्पः । तत्प्रायश्चित्तं यत्प्रातः कालातिपन्नस्य ११

12 एतावन्नाना नात्राहवनीयमनुगमयति ...{Loading}...

एतावन्नाना । नात्राहवनीयमनुगमयति १२

13 अथैकेषाम् यस्याग्निमनुद्धृतं सूर्योऽभिनिम्रोचेदभ्युदियाद्वा ...{Loading}...

अथैकेषाम् । यस्याग्निमनुद्धृतं सूर्योऽभिनिम्रोचेदभ्युदियाद्वा १३

इति सप्तमी कण्डिका