०६

01 यद्युद्द्रुतस्य स्कन्देत्तन्निषद्य पुनर्गृहीत्वा ...{Loading}...

यद्युद्द्रुतस्य स्कन्देत्तन्निषद्य पुनर्गृहीत्वा तदेव यादृक्कीदृक्च होतव्यम् । अथान्यां दुग्ध्वा पुनर्होतव्यम् । अथाज्येन वरुणीमृचमनूच्य वारुण्यर्चा जुहुयात् १

02 यदि प्राचीनं स्कन्देत्तदेव ...{Loading}...

यदि प्राचीनं स्कन्देत्तदेव यादृक्कीदृक्च होतव्यमन्यया वाभिदोह्यम् २

03 अथैकेषाम् यदि प्राचीनं ...{Loading}...

अथैकेषाम् । यदि प्राचीनं ह्रियमाणं स्कन्देत्प्रजापतेर्विश्वभृति तन्वं हुतमसि स्वाहेत्येनदभिमन्त्र्यैतदेवाग्निहोत्रं स्यादित्याश्मरथ्यः । अन्यां दुग्ध्वा पुनरोहोतव्यमित्यालेखनः ३

04 यदि पुरः पराहृतं ...{Loading}...

यदि पुरः पराहृतं स्कन्देदनूदाहृत्य चतुरभ्युन्नीय होतव्यमन्यया वाभिदोह्यम् ४

05 यदि पुर उपसन्नं ...{Loading}...

यदि पुर उपसन्नं स्कन्देत्तदेवयादृक्कीदृक्च होतव्यमन्यया वाभिदोह्यम् ५

06 अथैकेषाम् यदि पुर ...{Loading}...

अथैकेषाम् । यदि पुर उपसन्नमहुतं स्कन्देत्तदेव यादृक्कीदृक्च होतव्यम् । अथान्यां दुग्ध्वा पुनर्होतव्यम् । अथाज्येन वारुणीमिति समानम् ६

07 अस्कान्द्यौः पृथिवीमस्कानृषभो युवा ...{Loading}...

अस्कान्द्यौः पृथिवीमस्कानृषभो युवा गाः । स्कन्नेमा विश्वा भुवना स्कन्नो यज्ञः प्रजनयतु । अस्कानजनि प्राजन्या स्कन्नाज्जायते वृषा । स्कन्नात्प्रजनिषीमहीति स्कन्नमभिमन्त्र्योन्नम्भय पृथिवीमित्यद्भिरुपसृजेत् ७

08 यदनाहुतिमात्रं विप्रुडेव सा ...{Loading}...

यदनाहुतिमात्रं विप्रुडेव सा ८

09 यदि सायं स्कन्देदा ...{Loading}...

यदि सायं स्कन्देदा होतोः प्रातर्नाश्नीयात् । यदि प्रातरा होतोः सायं नाश्नीयात् ९

10 दिव्या वा एतमशनिरभ्यवैति ...{Loading}...

दिव्या वा एतमशनिरभ्यवैति यस्याग्निहोत्रं शिरिशिराभवति । समोषामुमिति ब्रूयाद्यं द्विष्यात् १०

11 यस्याग्निहोत्रेऽधिश्रिते श्वान्तराग्नी धावेद्गार्हपत्याद्भस्मादायेदं ...{Loading}...

यस्याग्निहोत्रेऽधिश्रिते श्वान्तराग्नी धावेद्गार्हपत्याद्भस्मादायेदं विष्णुर्विचक्रम इति वैष्णव्यर्चाहवनीयाद्ध्वंसयन्नुद्द्रुत्यैतयैव भस्मना शुनः पदमपिवपेत् ११

12 यस्याग्निमनाहृतं सूर्योऽभिनिम्रोचेद्यत्र दीप्यमानम् ...{Loading}...

यस्याग्निमनाहृतं सूर्योऽभिनिम्रोचेद्यत्र दीप्यमानं परापश्येत्तत आहृत्यैतं प्रविशानीति वैष आधीयते १२

13 इति दक्षिणाग्नेरनुगतस्याधानकल्पः ...{Loading}...

इति दक्षिणाग्नेरनुगतस्याधानकल्पः १३

14 यस्याग्निमनुद्धृतं सूर्योऽभिनिम्रोचेत् ...{Loading}...

यस्याग्निमनुद्धृतं सूर्योऽभिनिम्रोचेत् १४

इति षष्ठी कण्डिका


  1. TS I.5.11. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cp. TB I.4.3.5; MS I.8.3. ↩︎ ↩︎ ↩︎

  3. TS I.5.11.k. ↩︎ ↩︎