०५

01 यद्यग्निहोत्र्युपसृष्टा वाश्येत यस्माद्भीषावाशिष्ठास्ततो ...{Loading}...

यद्यग्निहोत्र्युपसृष्टा वाश्येत यस्माद्भीषावाशिष्ठास्ततो नो अभयं कृधि । अभयं नः पशुभ्यो नमो रुद्राय मीढुष इति जुहुयादभि वा मन्त्रयेत १

02 यद्यु वै निषीदेदेतयैव ...{Loading}...

यद्यु वै निषीदेदेतयैव यस्माभीषा न्यषद इत्यभिमन्त्र्योदस्थाद्देव्यदितिर्विश्वरूप्यायुर्यज्ञपतावधात् । इन्द्राय कृण्वती भागं मित्राय वरुणाय चेत्युपस्थाप्य तां दुग्ध्वा ब्राह्मणाय दद्याद्यस्यान्नं नाद्यात् । अवर्तिमेवास्मिन्पाप्मानं प्रतिमुञ्चतीति विज्ञायते २

03 अपि वा दण्डेन ...{Loading}...

अपि वा दण्डेन विपिष्याविपिष्य वोत्थाप्यात्मन्कुर्वीत ३

04 सूयवसाद्भगवती हि भूया ...{Loading}...

सूयवसाद्भगवती हि भूया थो वयं भगवन्तः स्याम । अद्धि तृणमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्तीति दर्भस्तम्बमालुप्य ग्रासयेत् ४

05 यद्यु वै लोहितन् ...{Loading}...

यद्यु वै लोहितं दुहीत व्युत्क्रामतेत्युक्त्वा दक्षिणमग्निं परिश्रित्य तस्मिन्नेतच्छ्रपयित्वा तस्मिन्व्याहृतीभिस्तूष्णीं वा हुत्वा तां ब्राह्मणाय दद्याद्यमनभ्यागमिष्यन्स्यात् ५

06 यदि दुह्यमानं स्कन्देद्यदद्य ...{Loading}...

यदि दुह्यमानं स्कन्देद्यदद्य दुग्धं पृथिवीमसक्त यदोषधीरप्यसरद्यदापः । पयो गृहेषु पयो अघ्नियासु पयो वत्सेषु पयो अस्तु तन्मयीत्येनदभिमन्त्र्य समुद्रं वः प्रहिणोमीत्यद्भिरुपसृजेत् ६

07 यदि दुह्यमाना स्थालीमवभिन्द्यान्निर्णिज्यान्यान् ...{Loading}...

यदि दुह्यमाना स्थालीमवभिन्द्यान्निर्णिज्यान्यां दुह्यात्तां वैव ७

08 यदि दुह्यमानन् दुग्धं ...{Loading}...

यदि दुह्यमानं दुग्धं ह्रियमाणं हृतमधिश्रीयमाणमधिश्रितमुद्वास्यमानमुद्वासितमुन्नीयमानमुन्नीतं वा स्कन्देत्तदेव यादृक्कीदृक्च होतव्यमन्यया वाभिदोह्यम् ८

09 यदि सृकृदुन्नीतं स्कन्देद्द्विस्त्रिर्वा ...{Loading}...

यदि सृकृदुन्नीतं स्कन्देद्द्विस्त्रिर्वा न तदाद्रियेत । यद्यु वै चतुर्थमुन्नीतं स्कन्देत्स्थाल्यां शेषमवनीय चतुरभ्युन्नीय होतव्यमन्यया वाभिदोह्यम् ९

इति पञ्चमी कण्डिका


  1. Cp. TB III.7.8.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See VI.5.7. ↩︎

  3. See VI.6.8. ↩︎