०४

01 गर्भं स्रवन्तमगदमकरग्निरिन्द्रस्त्वष्टा बृहस्पतिः ...{Loading}...

गर्भं स्रवन्तमगदमकरग्निरिन्द्रस्त्वष्टा बृहस्पतिः । पृथिव्यामवचुश्चोतैतन्नाभिप्राप्नोति निरृतिं पराचैरित्यग्निहोत्रस्थालीं स्रवन्तीमभिमन्त्र्य विधुं दद्राणमिति सन्दध्यात् १

02 अग्नये पथिकृते पुरोडाशमष्टाकपालन् ...{Loading}...

अग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपेद्यो दर्शपूर्णमासयाजीत्युक्तम् २

03 समानतन्त्रे वा मुख्यः ...{Loading}...

समानतन्त्रे वा मुख्यः कार्यः ३

04 अथैकेषाम् वि वा ...{Loading}...

अथैकेषाम् । वि वा एतस्य यज्ञश्छिद्यते यस्य यज्ञे प्रततेऽन्तरेतामिष्टिं निर्वपन्ति । य एवासावाग्नेयोऽष्टाकपालः पौर्णमास्यां योऽमावास्यायां तमग्नये पथिकृते कुर्यात् । तेनैव पुनः पन्थामवैति न यज्ञं निच्छिनत्तीति विज्ञायते ४

05 संयाज्ये एव पाथिकृती ...{Loading}...

संयाज्ये एव पाथिकृती स्यातामित्यपरम् ५

06 यस्य हविर्निरुप्तम् पुरस्ताच्चन्द्रमा ...{Loading}...

यस्य हविर्निरुप्तं पुरस्ताच्चन्द्रमा अभ्युदेतीत्युक्तम् ६

07 अनिरुप्तेऽभ्युदिते प्राकृतीभ्यो निर्वपेदित्याश्मरथ्यः ...{Loading}...

अनिरुप्तेऽभ्युदिते प्राकृतीभ्यो निर्वपेदित्याश्मरथ्यः ७

08 तण्डुलभूतेष्वपनयेत् ...{Loading}...

तण्डुलभूतेष्वपनयेत् ८

09 व्यृद्धभाग्भ्य इत्यालेखनः ...{Loading}...

व्यृद्धभाग्भ्य इत्यालेखनः ९

10 निनिरुप्तेऽभ्युदिते प्राकृतीभ्यः शेषम् ...{Loading}...

निनिरुप्तेऽभ्युदिते प्राकृतीभ्यः शेषम् १०

11 तण्डुलभूतेष्वपनयेत् ...{Loading}...

तण्डुलभूतेष्वपनयेत् ११

12 यस्यागृहीतं हविरभ्युदियाद्द्रतचर्यां वा ...{Loading}...

यस्यागृहीतं हविरभ्युदियाद्द्रतचर्यां वा नोदाशंसीत । स त्रेधा तण्डुलानिति पूर्ववत् । अथोत्तरस्मै हविषे वत्सानपाकृत्योपवसेत् १२

13 अथ यस्य गृहीतं ...{Loading}...

अथ यस्य गृहीतं हविरभ्युदियात्सैव प्रायश्चित्तिः सा व्रतचर्या १३

14 वत्सान्मातृभिः संसृज्य पुनरपाकृत्य ...{Loading}...

वत्सान्मातृभिः संसृज्य पुनरपाकृत्य पूर्वेद्युर्दुग्धं दधि हविरातञ्चनार्थं निदध्यात् १४

15 अग्नये व्रतपतये पुरोडाशमष्टाकपालन् ...{Loading}...

अग्नये व्रतपतये पुरोडाशमष्टाकपालं निर्वपेद्य आहिताग्निः सन्नव्रत्यमिव चरेत्प्रवसेद्वा व्रत्येऽहनि मांसं वाश्नाति स्त्रियं वोपैति १५

16 अग्नये व्रतभृदेऽष्टाकपालं यद्यार्तिजमश्रु ...{Loading}...

अग्नये व्रतभृदेऽष्टाकपालं यद्यार्तिजमश्रु कुर्यात् १६

17 त्वमग्ने व्रतभृच्छुचिर्देवाँ आसादया ...{Loading}...

त्वमग्ने व्रतभृच्छुचिर्देवाँ आसादया इह । अग्ने हव्याय वोढवे । व्रतानुबिभ्रद्व्रतपा अदाभ्यो यजा नो देवाँ अजरः सुवीरः । दधद्रत्नानि सुविदानो अग्ने गोपाय नो जीवसे जातवेद इति याज्यानुवाक्ये । व्रातभृतीं प्रवास एके समामनन्ति व्रातपतीमश्रुकर्मणि १७

इति चतुर्थी कण्डिका इति प्रथमः पटलः


  1. See VI.3.15. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See TB III.7.3.6. ↩︎ ↩︎

  3. TA IV.20.1 ↩︎