०३

01 सहस्रशृङ्गो वृषभो जातवेदाः ...{Loading}...

सहस्रशृङ्गो वृषभो जातवेदाः स्तोमपृष्ठो घृतवान्सुप्रतीकः । मा नो हासीन्मेत्थितो नेत्त्वा जहाम गोपोषं नो वीरपोषं च यच्छेत्येनमग्नौ प्रहरति १

02 प्रहृत्य वाभिजुहुयात् ...{Loading}...

प्रहृत्य वाभिजुहुयात् २

03 यदि कालसन्निकर्षेऽग्निर्मथ्यमानी न ...{Loading}...

यदि कालसन्निकर्षेऽग्निर्मथ्यमानी न जायेत यत्रान्यं पश्येत्तत आहृत्य जुहुयात् ३

04 अथात्वरमाणः पुनर्मन्थेत् ...{Loading}...

अथात्वरमाणः पुनर्मन्थेत् ४

05 यद्यन्यन् न विन्देदजायै ...{Loading}...

यद्यन्यं न विन्देदजायै दक्षिणे कर्णे होतव्यम् ५

06 अजस्य तु ततो ...{Loading}...

अजस्य तु ततो नाश्नीयात् ६

07 यद्यजान् न विन्देद्ब्राह्मणस्य ...{Loading}...

यद्यजां न विन्देद्ब्राह्मणस्य दक्षिणे हस्ते होतव्यम् ७

08 ब्राह्मणन् तु वसत्यै ...{Loading}...

ब्राह्मणं तु वसत्यै नापरुन्धीत ८

09 यदि ब्राह्मणन् न ...{Loading}...

यदि ब्राह्मणं न विन्देद्दर्भस्तम्बे होतव्यम् ९

10 दर्भांस्तु नाध्यासीत ...{Loading}...

दर्भांस्तु नाध्यासीत १०

11 यदि दर्भान्न विन्देदप्सु ...{Loading}...

यदि दर्भान्न विन्देदप्सु होतव्यम् ११

12 आपस्तु न परिचक्षीतेमा ...{Loading}...

आपस्तु न परिचक्षीतेमा भोजनीया इमा अभोजनीया इति १२

13 अप्यभोजनीयस्यैतं संवत्सरम् परिगृह्णीयादेवापः ...{Loading}...

अप्यभोजनीयस्यैतं संवत्सरं परिगृह्णीयादेवापः १३

14 अद्भिस्तु न पादौ ...{Loading}...

अद्भिस्तु न पादौ प्रक्षालयीत १४

15 सांवत्सरिकाण्येतानि व्रतानीत्याश्मरथ्यः यावज्जोवमित्यालेखनः ...{Loading}...

सांवत्सरिकाण्येतानि व्रतानीत्याश्मरथ्यः । यावज्जोवमित्यालेखनः १५

16 संवत्सरस्य परस्तादग्नये व्रतपतये ...{Loading}...

संवत्सरस्य परस्तादग्नये व्रतपतये पुरोडाशमष्टाकपालं निर्वपेत् १६

17 अग्नये क्षामवतेऽष्टाकपालं येषाम् ...{Loading}...

अग्नये क्षामवतेऽष्टाकपालं येषां पूर्वापरा अन्वञ्चः प्रमीयेरन् । गृहदाहे वा १७

18 अग्नये विविचयेऽष्टाकपालं यस्याहिताग्नेरन्यैरग्निभिरग्नयः ...{Loading}...

अग्नये विविचयेऽष्टाकपालं यस्याहिताग्नेरन्यैरग्निभिरग्नयः संसृज्येरन्मिथो वा १८

19 अग्नये विपृचेऽष्टाकपालं यदि ...{Loading}...

अग्नये विपृचेऽष्टाकपालं यदि गार्हपत्याहवनीयौ १९

20 अग्निना विपृचा वयङ् ...{Loading}...

अग्निना विपृचा वयं गीर्भिः स्तोमं मनामहे । स नो रास्व सहस्रिणः । कविरग्निः समिध्यते विप्रो यज्ञस्य साधनः । विपृञ्चन्रास्व नो वस्विति याज्यानुवाक्ये २०

21 अग्नये वीतयेऽष्टाकपालं यदि ...{Loading}...

अग्नये वीतयेऽष्टाकपालं यदि गार्हपत्यदक्षिणाग्नी दक्षिणाग्न्याहवनीयौ वा २१

22 अग्नये शुचयेऽष्टाकपालं यदि ...{Loading}...

अग्नये शुचयेऽष्टाकपालं यदि प्रदाव्येनाभ्यादाह्येन शवाग्निना वा । अग्नये सङ्कुसुकायाष्टाकपालं यदि सूतकाग्निना । सङ्कुसुको कुसुको विकिरो यश्च विष्किरः । माषाज्येन नलेध्मेन क्रव्यादं शमयामसि । अस्मिन्वयं सङ्कुसुकेऽग्नौ रिप्राणि मृज्महे । अभूम यज्ञियाः शुद्धाः प्र ण आयूंषि तारिषदिति याज्यानुवाक्ये । अग्नयेऽप्सुमतेऽष्टाकपालं यदि वैद्युतेन २२

23 यदि सर्वाः सन्निपतेरन्विविचये ...{Loading}...

यदि सर्वाः सन्निपतेरन्विविचये निरुप्य शुचये निर्वपेद्व्रातभृतीं तृतीयामप्सुमतीं चतुर्थीं क्षामवतीमन्तं परिक्रमयेत् २३

24 व्रातभृतीन् द्वितीयामेके समामनन्ति ...{Loading}...

व्रातभृतीं द्वितीयामेके समामनन्ति । व्रातपतीमुत्तमाम् २४

इति तृतीया कण्डिका


  1. For IX.2.9-3.2, cp. TB IIII.7.2.5-7; cp. Āśvaśs I.12.36. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. AV XII.2.13. ↩︎

  3. Cf. AB VII.2; ŚB XII.4.4.4. ↩︎