०२

01 यस्य व्रत्येऽहन्पत्न्यनालम्भुका स्यात्तामपरुध्य ...{Loading}...

यस्य व्रत्येऽहन्पत्न्यनालम्भुका स्यात्तामपरुध्य यजेत १

02 जघनेन वेदिमन्तर्वेदि वोदकशुल्बं ...{Loading}...

जघनेन वेदिमन्तर्वेदि वोदकशुल्बं सन्नहनं स्तृणीयात् २

03 यदा त्रिरात्रीणा स्यादथैनामुपह्वयेतामूहमस्मि ...{Loading}...

यदा त्रिरात्रीणा स्यादथैनामुपह्वयेतामूहमस्मि सा त्वं द्यौरहं पृथिवी त्वं सामाहमृक्त्वं तावेहि सम्भवाव सह रेतो दधावहै पुंसे पुत्राय वेत्तवै रायस्पोषाय सुप्रजास्त्वाय सुवीर्यायेति ३

04 यस्याग्निहोत्रं सान्नाय्यं वा ...{Loading}...

यस्याग्निहोत्रं सान्नाय्यं वा विष्यन्देतोदङ्परेत्य वल्मीकवपामुद्धृत्य प्रजापते न त्वदेतानीति प्राजापत्यर्चा वल्मीकवपायामवनीय भूरित्युपस्थायान्यां दुग्ध्वा पुनर्जुहुयात् । यदि सान्नाय्यमन्यदागमयेत् ४

05 यदि कीटोऽवपद्येत मध्यमेनान्तमेन ...{Loading}...

यदि कीटोऽवपद्येत मध्यमेनान्तमेन वा पलाशपर्णेन मही द्यौः पृथिवी च न इति द्यावापृथिव्ययर्चान्तःपरिधि निनीयान्यां दुग्ध्वा पुनर्जुहुयात् । यदि सान्नाय्यमन्यदागमयेत् ५

06 यस्याग्निहोत्रमववर्षेन्मित्रो जनान्कल्पयति प्रजानन्मित्रो ...{Loading}...

यस्याग्निहोत्रमववर्षेन्मित्रो जनान्कल्पयति प्रजानन्मित्रो दाधार पृथिवीमुत द्याम् । मित्रः कृष्टीरनिमिषाभिचष्टे सत्याय हव्यं घृतवज्जुहोतए!ति तत्कृत्वान्यां दुग्ध्वा पुनर्जुहुयात् ६

07 यदि पूर्वस्यामाहुत्यां हुतायामुत्तराहुतिः ...{Loading}...

यदि पूर्वस्यामाहुत्यां हुतायामुत्तराहुतिः स्कन्देद्यदि वोत्तरया पूर्वामभिजुहुयाद्यत्र वेत्थ वनस्पते देवानां गुह्या नामानि । तत्र हव्यानि गामयॐत वानस्पत्ययर्चा समिधमाधाय तत एव तूष्णीं हुत्वान्यां दुग्ध्वा पुनर्जुहुयात् ७

08 यदि पूर्वस्यामाहुत्यां हुतायामाहवनीयोऽनुगच्छेदग्निर्दारौ ...{Loading}...

यदि पूर्वस्यामाहुत्यां हुतायामाहवनीयोऽनुगच्छेदग्निर्दारौ दारावग्निरिति वदन्ननन्तरे शकले हिरण्ये वा जुहुयात् ८

09 यदि पुरा प्रयाजेभ्यो ...{Loading}...

यदि पुरा प्रयाजेभ्यो बहिःपरिध्यङ्गारः स्कन्देत्तं स्रुवस्य बुध्नेनाभिनिदध्यान्मा तमो मा यज्ञस्तमन्मा यजमानस्तमन्नमस्ते अस्त्वायते नमो रुद्र परायते नमो यत्र निषीदसि । अध्वर्युं मा हिंसीर्यजमानं मा हिंसीरिति यदि पुरस्तात् । ब्रह्माणं मा हिंसीर्यजमानं मा हिंसीरिति यदि दक्षिणतः । होतारं मा हिंसीः पत्नीं मा हिंसीर्यजमानं मा हिंसीरिति यदि पश्चात् । आग्नीध्रं मा हिंसीः पशून्मा हिंसीर्यजमानं मा हिंसीरिति यद्युत्तरतः ९

10 आहं यज्ञन् दधे ...{Loading}...

आहं यज्ञं दधे निरृतेरुपस्थात्तं देवेभ्यः परिददामीत्येनमादाय १०

इति द्वितीया कण्डिका


  1. i.e. the day preceding the day of the ritual proper. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TB II.7.2.1-2, where only the case of Agnihotra-milk is mentioned. ↩︎ ↩︎ ↩︎